________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमसाहिय दर्शनशास्त्रम्
आगमसम्बन्धिग्रन्थेषु दर्शनशास्त्रम्
समस्तागमानां नियुक्तिवृत्तिचूर्णिटीकासु श्रीभद्रबाहुस्वामि-हरिभद्रसूरि-श्रीअभयदेवमृरिप्रमुखै रिसूरिभिर्युक्त्या श्रुत्या, अनुभूत्या च विस्तरादर्शनतर्कचा चर्कराञ्चक्रे, यामवलोक्य सत्तर्ककर्कशास्तार्किका अपि नतमस्तका भवेयुरिति मन्मतिः ।
____ आगमरीतिपक्षपातिनि श्रीविशेषावश्यकभाष्ये पुनर्गाथा ६१ त: १४०० गाथापर्यन्तं, गाथा १५४९ तः २६७२ गाथान्तं च प्रमाणभूतमत्यादिपञ्चविधज्ञानतभेदप्रभेदविषय स्वामिविषयशक्त्यनुयोगनयगौतमायेकादशगणधरशङ्कातत्स - माधानवैदिकमन्त्रार्थसप्तविधनिह्नवदर्शनतत्खण्डनादिकमख-- ण्डपाण्डित्यतः प्रकृतवन्तः श्रीजिनभद्रक्षमाश्रमणपादाः । एवश्री उमास्वातिपादैनिष्पादिते तत्त्वार्थाधिगमे १सूत्रे तद्भाष्ये च सकलमागमसाहित्यमवगाह्य तदनुकूलया गंभीरप्रणाल्या जैनदर्शनाभिमततत्त्वप्रमाणप्रमातृकर्मबन्धनिर्जरामोक्षादिविषय - स्तत्प्रणेत्रो संस्कृतसूत्ररूपेण संक्षेपेण समाख्याताः सन्ति ।
१ सूत्रं सूचनकृत् , भाष्यं सूत्रार्थप्रपञ्चकम् इति हैमः २-१६८ यथा वेदान्तदर्शनस्य संस्कृतसूत्रबद्धं 'ब्रह्मसूत्रम्' प्रौढग्रन्थस्तथा जैनसिद्धान्तस्य प्रतिवादकमेतत् सूत्रमस्ति, दिगम्बराः श्वेताम्बराश्चोभावाप्येनं ग्रन्थं ग्रन्थकारं चाभिमन्यन्ते पूज्यदृष्ट्या तथाच सर्वशास्त्रसूत्रधारः श्रीहेमचन्द्रप्रभुः स्वे व्याकर गग्रन्थे व्या वख्यो, 'उपोमास्वाति संगृहितारः" हैम व्याकरणे २-२-३९ पृ. ७२ ।
For Private and Personal Use Only