________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काध्यारामकलिका
वर्द्धमानप्रभुस्तुतिः
यस्येच्छा किल सौख्यस्य सेवतां स प्रभुविभुम् ।
महावीरं नृदेवेशं सकलार्थप्रदायिनम् ॥८॥ वीरजिनस्तुतिः'चराचरप्राणिमयूरमेघे, विद्वन्मनोऽम्भोजविकाससूर्यम् ! मोहादिरोगार्दितमय॑वैद्य, वन्दे हि वीरं सुरसेवितं तम् ॥९॥ भक्तामरसमस्यापूर्तिः वीरस्तुतिः'सिद्धार्थनन्दन ! विभो ! विगताखिलाऽय!।
दु:खस्पृशां मरणजन्मजराघरूपे ॥ त्वां पोतवन्मुनिगणोऽघवतां प्रचष्टे ।
आलम्बनं भवजले पततां जनानाम् ॥१०॥ प्रभुरिति गौतममुनिभिः काम इति तरुणीभिर्महावीरः ।
बृहस्पतिरिति सुरेन्द्रैवैद्य इति रोगिभिश्च मेने ॥११॥ संसारदावानलदाहनीरस्य पादपूर्तियुक्ता वीरस्तुतिः"आतङ्कनीहारहरं पतङ्गं, पापौघपङ्कप्रविशोषकं च । सदजपण्डस्य विकाशहेतुं, नमामि वीरं गिरिसारधीरम् ॥१२॥
૧ આ કલેકમાં રૂપકાલંકાર છે. ૨ આ લેકમાં ઉપમા, અનુપ્રાસ આદિ અલંકારે છે. ૩ આ લોકમાં ઉલ્લેખાલંકાર છે. I ! આ લેકમાં ઉપમારૂપક છે અને સંસારદાવાનલદાહની એ ગાથાની પાદપૂર્તિ છે.
For Private and Personal Use Only