________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यारामकलिका
शान्ते: शान्तिको भवेदनुभवः शान्तेश्चरित्रं शुभं, शान्तौ सन्ति हिमांशुनिर्मलगुणा शान्ते! सुशान्ति दिश ॥४॥ श्रीपार्श्वनाथस्तुतिःदृष्टोद्य काले प्रकटप्रभावः,
श्रीपार्श्वनाथः पृथुपुण्यलभ्यः । दुःखाग्निदग्धासुमतेऽम्बुवाहो,
भवाब्धिभीताय महान् हि पोतः ॥५॥ श्रीपार्श्वनाथस्तवनम्:पार्श्वप्रभो! प्लुष्टपरारिपुञ्ज !
त्रैलोक्यकाइक्ष्यामलपादपद्म !। अनन्यसामान्यगुणप्रसिद्ध,
गुणाप्तये त्वां प्रणमामि नाथ ! ॥६॥ श्रीवर्द्धमानतीर्थकृत्स्तुतिःवीरो योगिविलासिपूजितपदो वीरं भजध्वं जनाः ।
वीरेण स्फुरिता नृदेवविहगा वीराय कुर्वे नमः ।। वीरानशुरशेषपापपटला वीरस्य धर्मो महान् । वीरेऽनन्तगुणा विशेषसुखदाः श्रीवीर ! मुक्ति दिश ॥७॥
૧ આ લેકમાં રૂપકાલંકાર છે.
૨ આ કમાં આઠે વિભકિત છે અને “અનુપ્રાસ આદિ અલંકારે છે.
For Private and Personal Use Only