________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महावीरमोक्षविल पः
महावीरमोक्षविलापः
(अनुष्टुप्) हा (!) देव ! किं कृतं स्वामिन् ! अस्माकं चित्तचन्द्रमः । जाता निर्मायकाः सर्वे कलौ हालाहलोपमे ॥१॥ अहो (!) स्वर्भू-भुवोलोक-त्राता यातोऽधुना शिवम् । 'त्रैलोक्यभावतीक्ष्णांशु स्वरों भगवान् गतः ॥२॥ नन्दिवर्धनभूपाद्या गौतमादिमहर्षयः । वीरा धीरा भवन्तोऽपि विलपन्ति सुराधिपाः ॥३।।
(उपजाति) क्क वीर ! यातो बहुकष्टकाले
धन्वन्तरिस्त्वं बहुरोगयुक्तान् । मुक्त्वा , दयालो ! यदि नः समं हि
तिष्ठेस्तदा का क्षतिराऽऽस्पृशेत्त्वाम् ||४|| अस्तोऽद्य लोके जगतीप्रदीपो
___ जातश्च तेनैव महान्धकारः । सर्वे च भूताः स्वमनोऽनुकूला
न धर्मतत्त्वं प्रविदन्ति मूढाः ।।५।।
*आत्मानन्द प्रकाश भावनगर पु. २९ अंक ४.
१ त्रिलोकस्थपदार्थप्रकाशने-(ज्ञाने) सूर्यः । ३ स्वच्छन्दचारिणः ।
२ दीप्तः
For Private and Personal Use Only