________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमहावीरप्रशस्तिः
१भक्तामरप्रणतमौलिमणिप्रभाणां
कान्त्या सुरञ्जितपदाजयुगं श्रयेऽहम् । भवाम्बुधौ शिवजुषत्रिशलाङ्कजस्य
पोतायमानमभिनभ्य जिनेश्वरस्य ॥५॥ सार्द्ध स्वचित्तैर्मुमुचे जलं शुमे
सैद्धाथिदेहे सुरपर्वते सुरैः । स्नात्राम्बुलक्ष्यात् नयनाम्बुभिस्तदा
हर्षोद्गतैर्देवमुदा युतो गिरिः ॥६॥ २यः संस्तुतः सकलवाङ्मयतत्त्वबोधा
__ रुत्पन्नधीधनजनैः सुमनोभिरामैः । स्याद्वादतत्त्वप्रतिपादनकौशलेन
निष्पक्षपातसमताधृतितोऽन्तिमेशः ॥७॥ मेरुः किं प्रभया स्वया दिविषदः पीतान् विधत्ते हि नः ? किं वा दिक्कमरोद्यति: सुरगिरौ तद्धारजा किं नमः ? । कि देहो नु जिनेशितुः कनकभं कान्त्या स्वया लिम्पते
आशङ्का मनसीति चित्रविषया स्नात्रेऽजनि स्वर्भुवाम् ॥८॥ नेते कजे किंतु जिनेन्द्रनेत्रे नेदं सरोजं तु जिनेन्द्रवक्त्रम् । भ्रान्तोद्विरेफोऽसि तिरस्कृतोऽभूत् इत्यप्सरोभिर्धमरस्सहासम्॥९॥
१ भक्तामरादिपदकल्याणमंदिरचरमपदसमस्यापूर्तिः । २ भक्तामरद्वितीयश्लोकपादपूर्तिः । ૩ આ બન્ને કે પ્રભુ શ્રી મહાવીરના મેરૂ પર્વત ઉપર भत्तात्रीलिप प्रसंगना.
For Private and Personal Use Only