SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ************** KXXXXXXXX www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | साधारण्यनिश्चयस्याक्षत मेवेति असाधारण्यसंग्रहः अनुमितिपदं साध्यव्याप्यो हेतुः साध्यवाङ्श्यपक्ष इत्येतादृशसमूहालंबनानुमितिपरं तेन साधारणज्ञानस्य साध्यवत्ताज्ञानाप्रतिबंधकत्वेपि न तदसंग्रह : एतेना नुमितिविरोधित्वं यादृशविशिष्टविषयक निश्चयत्वेनानुमितिप्रतिबंधकं तादृशत्वं तत्रचा वच्छेदकत्वं प्रागुक्तयुक्त्या अनतिरिक्तवृत्तित्वरूपमेव विवक्षणीयं एवंच साध्यव्यापकीभूताभावप्रतियोगिहेतुरितिज्ञानस्य हेतुमत्ताज्ञानासमानकालीनस्य साध्यवत्ताज्ञानाप्रतिबंधकतया तादृशज्ञानविषयस्य निरुक्तलक्षणानाक्रांतत्वेन ना साधारण्यस्वरूपत्वोपपद्यते पक्षवृत्तित्वविशेषितस्यैव तस्य वाधादिवद्धर्मिविशेषघटित मूर्तिकतया नियतपक्षधर्मिका नुमितिविरोधित्वमेव नतु यत्र यत्र हेतुमत्वं ज्ञायते तत्तद्धर्मिका नुमितिसामान्यविरोधित्वमिति न तथात्व | संभव इतिपरास्तं यत्तु हेतुमताज्ञानमनिवेश्य तत्तद्धेतुधर्मिक साध्यव्यापकीभूताभावप्रतियोगित्व निश्चयत्वेनैव प्रतिबंधकता प्रतिबध्यतावच्छेदकंतु धर्मिविशेषविषयकत्वाय घटितं तत्तद्धेतुमत्ताज्ञानजन्यानुमितित्व मतः शब्दत्वं नित्यत्वव्यापकीभूताभा वप्रतियोगि निश्चयसत्वे समानधर्मितावच्छेदकक शब्दत्ववत्तानिश्चयस्य चा सत्वे नित्यत्वाद्यनुमिते नानुपपत्तिः तदानींहेत्वंत रज्ञानेनैवा नुमितिजनना तस्याश्च शब्दत्व धर्मिक तादृशाभावप्रतियोगित्व निश्चयाप्रतिबध्यत्वात् एवंच पक्षवृत्तित्वा विशेषितंनिरुक्तरूपमेवा-साधारण्य लक्षणे अनुमितिपदस्य प्रकृतहेतुकानुमितिपरतया प्रकृतहेतुकानुमितिसामान्यविरोधित्वस्या नति - रिक्तवृत्तित्व रूपावच्छेदकत्वघटितस्यापि तत्रसत्वेन तदसंग्रहाप्रसक्तेरिति समाधानं तत्र शब्दत्वादिधर्मिक तादृशप्रतियोगित्व - निश्चयस्य शब्दत्वादिहेतु मत्ताधी जन्यानुमितित्वावच्छिन्नप्रतिप्रतिबंधकत्वे । तादृशनिश्चय सहकृतशब्दत्वादिप्रकारकनिश्चयदशायां तत्समानधर्मितावच्छेदकक शाब्दबोधायापत्ते रन्यहेतुक तादृशानुमित्यापत्तेश्च दुर्वारितत्वा न्नचान्यहेतुकापि समानधर्मिताव च्छेदकक तद्दत्ताज्ञानकालीनानुमिति स्तद्दत्ताज्ञानजन्यैवेति न तदापत्तिसंभव इतिवाच्यं । व्याप्यत्वानवच्छिन्न हेतुप्रकारताशा For Private and Personal Use Only *****••••• * *****
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy