SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir गादा लिज्ञानस्या नुमितिजनकत्वे मानाभावात् अन्यलिंगकपरामर्षघटितसामग्रयां तत्तद्धर्मिक तादृशनिश्चयाभावस्या नंतर्भावेन तह-13 लादापत्तेः कथामात्रेण वारयितुमशक्यत्वाच एतेन समानधर्मितावच्छेदकक तहत्ताज्ञानानंतरोत्पतिकत्व निवेशेपि न निस्तार इत्यल मत्यावशेन एतन्नये। पक्षवृत्तित्वाविशेषित हेतुनिष्ठसाध्याभावीयान्वयव्याप्ति रप्यसाधारण्यमेवेति न तत्रातिव्याप्ति रित्यवधेयं । तथा निरुक्तानुमितिसामान्यविरोधि धर्मिविशेषितत्वात् धर्मिविशेषघटितत्वात् न तादृशौ न तादृशानुमितिसामान्यविरोधिनौ नन्वेवमपि सर्वमाकाशवत् प्रमेयत्वादित्यादिस्थलीय वाधप्रतिरोधयो रतिव्याप्तिः सर्वमाकाशाभाववदित्यादिनिश्चये किंचिदप्याकाशाद्यनुमिते रनुदया दनुभवानुरोधेना समानधर्मितावच्छेदककज्ञानेपि तत्प्रतिबंधकत्व कल्पना तयो रनुमिति सामान्यविरोधित्वा दित्यत आह सर्वमिति इत्यादिकं इत्याकारकज्ञानविषयवाधादिकं अग्रिमविरोधिपदयस्य प्रतिबंधकपरतया इत्यादिकमित्यस्य इत्याकारकज्ञानमित्येव वार्थः सामानाधिकरण्यग्रहविरोधि साध्यसामानाधिकरण्यस्य साध्यवत्वघटितत्वा दितिशेपः तथाच अविरोध्यं तेनैव तहारणमिति भावः निर्द्धर्मितावच्छेदककज्ञानस्य वाधाद्यप्रतिबध्यत्वे साध्यसामानाधिकरण्य ज्ञानस्य साध्यांशे निर्द्धर्मितावच्छेदककतया तदविरोधित्व मुक्तवाधादेरक्षत मेवेत्याशयेनाहा नुमितीति । व्यभिचारस्यापि प्रकृतसाध्यहेतुकानुमितिविरोधित्वा सामान्येति तथाच तस्यान्यहेतुकानुमित्यविरोधित्वा न तदसंग्रहः उक्तवाधादेश्च सर्वहेतुकानुमितिविरोधि. त्वा तदारणमितिभावः । इदंत्ववधेयं सर्वमाकाशाभाववदित्यादिज्ञानस्या समानधर्मितावच्छेदककानुमितिविरोधित्वे मानाभाव: तादशज्ञानकालेइदमपि सर्वान्तर्गत मित्यादिज्ञानसत्वे एव इदमाकाशवदित्यायनुमित्यनुदया तत्रच तादृशज्ञानस्यैव ग्राह्याभावाव Jaच्छेदकधर्मदर्शनविधया तादृशानु मित्यभावनिर्वाहकत्वा तथाच तादृशवाधबुद्धे निरुक्तानुमितिसामान्यविरोधित्वाभावादेव नाति व्याप्तिशंकेति वस्तुतस्तु तद्धर्मितावच्छेदकक बुद्धौ तत्सामानाधिकरण्यमात्रेण ग्राह्याभावावगाहिवुद्दे रप्रतिबंधकतया ग्राह्याभा For Private and Personal use only
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy