________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
यदीदृशं यदिवृत्तिमत्व ग्रहविरोधि वृत्तिमत्वग्रहे ग्राह्याभावावगाहितया स्तनसामान्यानावावगाहि ज्ञानमेव विरोधि नत्वेकविशेषा भावविशिष्टापरविशेषाभाव रूपसाध्यतदभाववतव्यावृत्तत्व ज्ञानमित्यस्वरसात् यदीति । निष्कृष्टमता भिप्रायेणाह । नोचेदिति । इदमेवनिश्चया घटितं साध्यतदभाववव्यावृत्तत्वमेव । एवकारेण निश्चय घटितस्य व्यवच्छेदः (१)। नन्वत्र साध्यादि व्याप्यत्वंयदिसाध्यादिमदन्या वृत्तित्वेसति साध्यादि मवृत्तित्वं तदा द्वितीयलक्षणाभेदः साध्यव न्मात्र वृत्यादि पदस्यापि तादृश व्याप्तिमदर्थकत्वादि त्यत आह । व्यापकेति । द्वितीय लक्षणस्या पि यथाश्रुतार्थपरत्वे पूर्ववद्व्याप्य विरूद्धयो दशाविशेषे ऽसाधारणयो रसंग्रह इत्यत आह । रीतिरिति । तत्रापि साध्य तदभाव वन्मात्रवृत्तिग्रहविरोधि वृत्तिमत्वग्रहा विरोधिधर्मवत्व मेव विवक्षणीय मित्यर्थः । उपाध्याय मत माह । केचित्विति असाधारण्या भावकालः प्रकृतहेतुनिष्टा साधारण्या भावस्या वच्छेदक क्षणः । तेन यदा शद्वत्वादे रसाधारण्यं तादृशक्षणस्य घटत्वादि निष्ठा साधारण्याभावावच्छेदक त्वेपि न क्षतिः । अथ शहादौ साध्यसंदेह दशायां शइत्वादौ असाधारण्यव्यवहारप्रयोजकस्य तत्कालीनसाध्यादिनिश्चयविषयीभूत घटादिवृतित्वविरहस्य शहादौ साध्यनिश्चय दशाया मपि तत्र सत्वात् । प्रकृत हेतुनिष्ठासाधारण्यासावस्या प्रसिह्या ऽव्याप्तिः । नच तत्कालीन साध्यादि निश्चय विषयीभूत धर्मिव्यावृत्तत्वरूपा साधारण्य घटक तत्कालादि विरहात् तदानी तद्घटिता साधारण्य विरहो ऽक्षत एवेति वाच्यं । प्रतियोगि कोटि प्रविष्ट विशेषणा सत्वस्याभावीय विशिष्टाभावाप्रयोजकत्वात् अन्यथा दंडाद्यसत्वे दंडविशिष्टपुरुषाभावादेरिव दंडविशिष्टपुरुषाभावाद्यभावस्या पि सत्वप्रसंगात् यदिच प्रकृतहे!तुमहिशेष्यकसाध्य तदक्षावान्यतरनिश्चयक्षण एवासाधारण्यासावकालेत्यनेन विवक्षित इत्युच्यते तदाशदोनित्यः शब
(१) टिप्पणी-निश्चय घटितस्य तस्य साध्या सामानाधिकरण्य सामान्या भावा विषयकत्वेन तादश व्याप्ति ग्रहा विरोधित्वा दितिभावः
For Private and Personal use only