SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir गादा. ३२ प्रसके हेत्वाभासपदव्यर्थ मित्याशंकां निराचिकीर्षु दोषलक्षणे ऽसिद्धि विशेषात्मकावृत्तित्वाति व्याप्ति वारकतया तत्सार्थकीकर्त तदर्थ माह । हेतुवदिति । दशाविशेषे व्याप्यविरुद्धयो रप्यसाधरणत्वात् तयोः प्रत्येकं यथाश्रुतलक्षणघटकदलय विरहाद व्याप्तिः एवं हेत्वाभासपदस्य वृत्तिमदर्थकत्वे ऽवृत्तेरपि साध्य तदभाववढ्यावृत्तत्वेना साधारणतया तत्रा व्याप्तिरतः पर्य्यवसितार्थ माह । एवंचेति ननु साध्याभाववदृत्तित्वं साधारण्यं साध्यवदवृत्तित्वं चासाधारण्यं तच्च साध्य सामानाधिकरण्य ग्रहएव विरोधि नतु साध्याभाव व्याप्ति ग्रहेपीति कथं तत्संग्रह इत्यत आह । साध्येति । साध्यतदभाववढ्यावृत्तत्वस्य वृत्तिमत्व विरुद्धतया तत्ज्ञानं वृत्तिमत्व ग्रहप्रतिबंधक मित्यभिप्रेत्याह निश्चितेति । तच्च। तादृश साधारण्यमसाधारण्यं च व्याप्ति हयेति । साध्यव्याप्ति साध्याभावव्याप्तीत्यर्थः । साध्यस्य साध्याभावाभावतया साध्याभावनिरूपित व्याप्तिग्रह साध्यवत्तित्वस्य ज्ञानप्रतिबंधकमिति ततघटितस्य साधारण्यस्य साध्याभावव्याप्ति ग्रहविरोधित्वमेव साध्याभाववव्यावृत्तत्वस्य ज्ञानमपिसाध्यानावसामानाधिकरण्यघटित साध्याभावव्याप्तिग्रहे प्रतिबंधकमिति तद्घाटितस्या साधारण्यस्यापि तथात्वमिति भावः । हृदयमित्यस्वरससुचनाय । एवं साध्याभावाभावत्वेन साध्यविषयक तहदृत्तित्वज्ञानस्यैव साध्याभावाभाववदवत्तित्वघटितस्य साध्याभावे हेतुसमानाधिकरणाभावाप्रतियोगित्वघटितस्य वा साध्याभावव्याप्यत्वस्य ग्रह प्रतिबंधकतया साध्यतावच्छेदक रूपेण साध्यविषयक तवृत्तित्वज्ञानस्य न प्रतिबंधकत्वं निश्चितसाध्यादि मझ्यावृत्तत्वज्ञानस्य साध्यादि सामानाधिकरण्य सामान्याभावा-विषयकतया साध्यादि व्याप्तिग्रहाप्रतिबंधकत्वंच । विशेष्य दलप्रयोजनं स्फुटयति । असिद्धि विशेष इति । स्वरूपा सिद्धि प्प्यत्वा सिद्धिर्वेत्यर्थः एतच्चालक्ष्यता लाभाय । ननु निश्चया घटितस्य साध्यतदभाववव्यावृत्तत्वस्य वृत्तिमत्व ग्रहा विरोधितया एतदनंतर्भावे तस्या विकहेत्वा भासतापत्तिरित्यत आह । साध्यति । For Private and Personal use only
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy