________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagar sur Gyanmandir
रकतरोपादाने ऽन्यतरासंग्राहक साध्याव्यभिचरितत्व विशिष्ट साध्यसामानाधिकरण्यासावरूपव्याप्यत्वासिद्धावतिव्यापक चेत्यत आह । विवेचयिष्यत इति विशिष्टसाध्यसाधनग्रहाविरोधित्वं निवेश्य साध्याप्रसिद्ध्यादिकं वारयिष्यते विशिष्ट साधनग्रहविरोधी व्यभिचारो ऽसिद्धावेवान्तर्भावनीयः समूहालंबनात्मकनानाविधव्याप्तिज्ञानमादायात्वंतान्योन्याभाव गर्भविविधव्यभिचाराः संगृहीच्यते . व्याप्त्यभावोव्यभिचारएवांतभावयिष्यते तस्य वहिर्भावनीयत्वे विशकलितयोरेवा व्यभिचार सामानाधिकरण्ययो ज्ञान मुपादेयमिति न कस्यचिदपि दोषस्या वकाश इतिभावः ननु सपक्षवृत्तित्वज्ञानस्या नुमित्याधविरोधितया सपक्षविपक्षवृत्तित्वस्यानुमितिविरोधित्वोक्ति न संगच्छते । नच विपक्षवृत्तित्व ज्ञानस्या नुमिति प्रतिबंधकतया तद्घटित विशिष्टस्यानुमितिविरोधित्व मक्षतमेवेति वाच्यं । तयासत्यपिविपक्षवृत्तित्वमात्रस्यापि तथात्वा | त्तदायैव लक्षणगमनसंभवे विशिष्टमादाय लक्षणसंगमनस्य संदर्भविरुद्धत्वात् । विपक्षवृत्तित्वमांत्रस्यातथात्वे तदादाय विरूद्धे ऽतिव्याप्तेरप्रसक्तेः विरुद्धोपीत्यग्रिमग्रंथासंगति श्वेत्यत आह । सपक्षेतीति । तथाच विपक्षवृत्तित्वमानं विवक्षित मितिभाव: अतएव । सपक्षवृत्तित्वस्या विवक्षितत्वादेव । मूले एतद्ज्ञानमिति दृष्टांतविधयोतं तथाच एतादृशानुगत धर्माज्ञानदशाया मिव तत् ज्ञानदशायामपि अवश्यकल्प्यप्रतिबंधकताक ज्ञानस्यैव दोषत्वात् । अनुमित्यनुत्पादप्रयोजकत्वादित्यर्थः। तथाचा नुगत धर्मज्ञानदशायां प्रत्येकज्ञानस्या सत्वे ऽनुमिति रिष्टैव तत्सत्वे ततएवानुमित्यनुत्याद इति तज्ज्ञानस्य प्रतिबंधकताया अप्रामाणिकत्वा न तस्य विभाजकत्व मिति भावः । व्वर्थविशेषणत्वा दिति मूले विशेषणपदस्या नुमिति विरोधित्वरूप विशेषणपरत्वं न संभवति तनुपादाने सडेती व्याभिचारादतोव्याचष्टे विशेषण मिति । स्वरूपासियादि हेतो रप्यसाधकतया तब व्यभिचाराप्रसक्ते स्तहारकं विशेषणं व्यर्थमिति भावः । सद्धेतोः साध्यव्याप्यतया तत्रा तिव्याप्त्य
For Private and Personal Use Only