SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir गादा त्तत्व रूप संशय प्रयोजकधर्मस्यो तहेतौ सत्वा कथं तत्राव्याप्तिशंका कथंवा ऽलक्ष्यत्वाभ्युपगमेन तत्यरीहारइत्यतआह निश्चितेति साध्यतदभाव निश्चयविषय वृत्तित्वस्य तथात्वे संशयप्रयोजकत्वे सद्धेतौ । वन्यायाधिकरणवृत्तितया निश्चिते धूमादौ धर्मिवृत्तित्व ग्रहदशापर्यंन्तानुधावनं संशयजनकज्ञानस्य विशेषण विधया लक्षणघटकत्वे प्यतिव्याप्तिः संभवतीत्यभिप्रायेण वस्तु. तो यदाहेतुमति साध्याभावभ्रमावर्त्तते तदा हेतौ तदधिकरणदृत्तित्वाग्रहेप्यतिव्याप्तिसंभवति तादृशज्ञानस्यो पलक्षणत्वादितिध्येयं । तादृशेति साध्यतदभावविषयकेत्यर्थः वनं संशयप्रयोजकरूपघटकं किंचेति संदेहजनकतावच्छेदकरूपस्य जनक-तावच्छेदकप्रकारतावच्छेदकस्य विशेषणत्वे धर्मिविशेषणतयासव्यभिचारपदप्रतिपाद्यत्वे महानसादिवृत्तितादशायामव्याप्तिः तत्कालान्त - वेणा व्यभिचारित्व व्यवहारापत्तिः तदानीं साध्याभावववृत्तित्वाभावस्य तत्रा क्षतत्वात् तादृशव्यवहारविषयस्या वाधित्वा दितिभाव: नच द्रव्यविशिष्टसत्त्वादित्यादा वतिव्यातिवारणाय साध्यसंदेहजनकतावच्छेदकप्रकारतावच्छेदकधर्मवत् प्रकृतहेतुतावच्छेदक वत्त्व मेव व्यभिचारपदार्थोवाच्य : साधारणस्थलेच तादृशोधर्मः साध्यतदभाववत्तितावच्छेदकत्व मेव ततहिशिष्ट हेतुतावच्छेदकावच्छिन्नहेतुमत्ताज्ञानस्या पि संदेहजनकतोपगमात् एवंच रासभादेर्महानसादिवृत्तितादशायां वन्यभाववढ-- त्तित्वविरहेपि तदवच्छेदकरासभत्वादिसत्त्वेन तादृशव्यभिचाराभावो नास्तीति कथमुक्त व्यवहारापत्ति रितिवाच्यम् एवमपि अनित्यधर्मस्य हेतुतावच्छेदकत्वे (१) तदसत्त्वदसाया मापत्ति तादवस्थ्यात विशेषणत्वे कालविशेषावच्छिन्नतया तदानीं व्यभिचारीत्यादिव्यवहारविषयत्वे ऽव्याप्ति स्तकालांतर्भावेण दुष्टत्व व्यवहारानुपयत्तिरिति तुनार्थः । साधारण्यस्य नित्यदोषतया कालविशेषान्तविण व्यभिचारित्वव्यवहाराजनकतायाः तत्रेष्टत्वात् । उपलक्षणत्वे । अत्यन्तायोगव्यवच्छेदपरिचायकतया व्यभिचा (१) हिप्पणी- तदानी चन्हि साधने रासभो दुष्टः इत्यादि व्यवहारा नुपपत्तिः ॥ For Private and Personal use only
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy