________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
www.kobatirth.org
द्वा०
धर्मिणि पूर्व घटत्वग्रहस्या नुसरणं तघटभिन्नोयमिति भ्रमपर्यंतं तद्घटानवस्थाने तादृशभ्रमएव न संभवति । विशेष्यविरहा दतः स्थिरइत्युक्तं । तद्घटभिन्नोपमिति भ्रमदशायां इदंत्वावच्छिन्ने घटत्वग्रह इदंत्वस्य साध्यसहचारतत्वेन निश्चित
तया ऽसाधारण्यं नशंकाऽस्यद मपीत्यतआह तत्रैवदोषाघटत्वाग्रहइति । तत्रइदंत्वावच्छिन्ने तदघटभिन्नोयमिति भ्रमानुधाao वनं इदंत्वस्य निश्चितसाध्यवर्मिव्यावृत्तत्वज्ञान संपादनाय तदाधर्मिणि घटत्वनिश्चयसत्वे एव संशयप्रयोजकस्य तत्कालीन
तत्पुरुषीय साध्यनिश्चयविषय व्यावृत्तत्वस्येदंत्वे ऽसत्वमतः केवलतव्यक्तित्वेन प्रतियोगिविधया तद्घटनान मुपेक्ष्य तदघटत्वेन तद भानानुसरणं तथासति तादृशभ्रम एव तव्यक्तित्व विशिष्टेधर्मिणि घटत्वस्य निश्चयइति तन्निष्ठेदंत्वे दर्शितसंशयप्रयोजकरूपानावा दव्याक्ति प्रसकिरिदं त्वविशिष्टे घटसामान्यभेदभ्रमे इदंत्वे विपक्षवृत्तित्वनिश्चय संभवात् तदव्यावृत्तत्वज्ञाना| संभवाक साधारण्यं नशंकाऽस्यदमपीति प्रतियोगिकोटौ तत्वभानानुधावनम् । इदंत्वपीति । अव्याप्तिरित्यनुषज्यते वस्तुत स्तव्यावृत्तत्वाभावेन वास्तविकस्य साध्यनिश्चयविषयीभूत धर्मिव्यावृत्तत्वस्या भावेन लक्षणयोगादिति वास्तवसंशय प्रयोजक रूपवत्वस्यलक्षणघटकत्वादितिभावः अतएवेत्यत्रेदंपदेन पूर्वाभिहितायाः सहेतुत्वाज्ञानस्य पुरुषदोषताया : परामर्षे ऽसंगतिः तस्या असाधारण्यादे रनित्यदोषताया मनुपष्टंभकत्वा दतस्तत्परामर्शनीयं व्याचष्टे अतएवेति शुरुषदोषाधीनं पुरुषस्य हेतुम-| तिपक्षेच साध्यतदक्षावानिश्चय साध्याभावव्याप्यवत्ताधमाधीनं तद्दोपत्वं तादृशहेतो रसाधारण्य सत्पतिपक्ष रूपदोषवत्वं तस्यासाधारण्यस्य सत्प्रतिपक्षस्य च अनित्वदोषत्वं दशाविशेष एव हेतोर्दुष्टता संपादकत्वं साहजिकदोषत्वे तादृशपुरुषदोष - विरहदशाया मपि हेतो?ष्टतासंपादकत्वे कदाचित्कत्वं कदाचिदेवहेतो?ष्टता संपादकत्वम् एतावता ऽयंघटएतत्वादित्यादौ दशा विशेषे पुरुषदोषाधीन दुष्टत्वशंकाया अनिवृत्ते स्तन्निवृत्यर्थ मन्वयेत्यादि ग्रंथसंगमनाय चाभिप्रायं पूरयति एवंचेति दोषता
For Private and Personal Use Only