________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
चरितप्रमेयत्ववत् सर्वमित्यादिज्ञानस्य संभवेन तहिषयतावच्छेदको भयसाहचर्य मादाय साध्यसंदेहदशाया मपि लक्षणसमन्वयइत्यर्थः। अनुपसंहारितोत्तीर्णतादशायां तदुभयसाहचर्य्यसत्त्वेपि तदानी तादृशहेतो रसाधारणतया नसामान्यलक्षणातिव्याप्ति रितिभावः साधारण्यविषयकज्ञानत्वावच्छिन्नस्यैव संशयान्वयव्यतिरेकानुविधायित्वात् तेन रूपेण संशयहेतुता न तु तविषयकनिश्चयत्वेन तदवच्छिन्नस्या न्वयव्यतिरेकानुविधायिताया असिद्धत्वात् तथाच साध्यसंशयकाले साहचर्यनिश्चयास| भवेपि तदंशे संशयात्मक संशयजनकज्ञान मादायलक्षणसमन्वयः संभवतीति केचिदाहुः। तन्मतमुपन्यस्यति । केचित्त्विति वस्तुतो वस्तुगत्या यत्साधारण तज्ज्ञानेपि स्वतद्धेतुतायां अकिंचित्कर अनवच्छेदकं पक्षएव पक्षान्तविनैव । तत्संशयेति ।। साहचर्या संशयेत्यर्थः साहचर्यज्ञानात् साहचर्यविशिष्टप्रकारकज्ञानात् । तथात्त्वं सव्यभिचारत्त्वं । तच्चित्यमिति संबंधांशे निश्चयात्मकं संबंधिज्ञानं संबंध्यंतरस्मारकं शन्यादिसंशयात् पदार्थस्मरणा द्यनुत्यत्ते रिति । साधारण्यसंशये कोट्युपस्थापकत्वं | न संभवति । एवं संशयसाधारणसहचारज्ञानस्य हेतुत्वे अप्रामाण्यनिश्चयानास्कंदितत्व मेवावच्छेदककोटौनिवेशनीयं तन्निश्चयत्वेन हेतुत्वेतु अप्रामाण्यज्ञानानास्कंदितत्वमेवेति लाघवात् संशयात्मकसहचारज्ञानं न हेतु रेव मनुपसंहारितादशायां संशयजनकज्ञानसंपादनप्रयासोपि विफलः । तादृशज्ञानासत्त्वदशायां साधारणाव्याप्तिभयेन तादृशज्ञानस्यो पलक्षणविधयैव लक्षणघटकत्वादित्यादिचिंतावीज मूहनीयं केवलान्वयीत्यादि मूलमवतारयति नन्वित्यादिना । अयंघटएतत्त्वादित्यादिस्थले पक्षताद-| शायां संशय प्रयोजक निश्चितसाध्यतदभाववढ्यावृत्तत्वस्य सत्त्वादव्याप्त्यप्रसक्ते स्तस्यालक्ष्यतया ऽव्याप्तिपरिहारोपि न संग च्छत इत्यत स्तत्र निश्चितसाध्यवद्वत्तित्वं संपादयति एवमिति हेतुभूतेदंत्ववति पूर्वं घटत्वग्रहएव तन्मूलकात् सघटइत्याकारकस्मरणात् तद्घटत्वेनैव तद्घटभेदोत्र घटेगृहीतुं शक्यंते नान्यथा प्रतियोगितावच्छेदकप्रकारक प्रतियोगिज्ञानविरहा दिति |
For Private and Personal use only