________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagersun Gyarmandie
रोधि, तत्सम्बन्ध ः प्रत्येकमस्ति विरुद्धोऽप्यनेन रूपेण सव्यभिचारएव उपाधेश्च न संकरइति वक्ष्यतइतिनिरस्तम् एतदज्ञाने ज्ञानेऽपि वा ऽवश्यकप्रत्येकज्ञानस्य दोपत्वात् असाधकतानुमितौ । व्यर्थविशेषणत्वाच्च अतएव साध्याव्याप्यत्वे सति साध्याभावाव्याप्यहेत्वाभासत्वं साध्यवन्मात्रटत्त्यन्यत्वे सति साध्याभाववन्मात्रवृत्त्यन्यत्वं वेति परास्तं व्यर्थविशेषणत्वात् प्रथम हेत्वाभासत्वाज्ञानाच्च गगनमनित्यं शहागवादित्यादिबाधविरुद्वसंकीणीसाधारणाव्याप्तिरिति कश्चित् । नापि सपक्षविपक्षगतसर्वसपक्षाच्यावृत्तान्यतरत्वं व्यर्थविशेषणत्वात् अनुपसंहार्यव्याप्तेश्च। किंच पक्षातिरिक्तसाध्यवतः सपक्षत्वे प्रमेयत्वेनाभेदसाधनेऽनुपसंहाय्येऽव्याप्तिः पक्षातिरक्तसाध्यवतोऽप्रसिद्धेः साध्यवतः सपक्षवे विवक्षितेऽप्रसिद्धिः दृत्तिमतोधर्मस्य साध्यवद्विपक्षान्यतरट-3 तिवनियमात् । नापि पक्षातिरिक्तसाध्यवन्मात्रवृत्त्यन्यत्वे सति पक्षातिरिक्तसाध्याभाववन्मात्रत्तिभिन्नत्वम् अनुपसंहार्यव्याप्तेः धूमादावतिव्याप्तेश्च तस्य पक्षे साध्यवति वृत्तः नापि पक्षत्तित्वे विरुद्धान्यवे च सत्यनुमित्यौपयिकसंबंधशून्यत्वं व्यर्थविशेषणत्वात् एतेनानुगतं सर्वमेव । लक्षणप्रत्युक्तं प्रत्येकमेव दूपणत्वात् उद्भावने वादिनिवृतेश्च । उच्यते । उभयकोट्युपस्थापकता
For Private and Personal Use Only