________________
Shri Mahavir Jain Aradhana Kendra
*******98898936
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
श्रीगणेशायनमः ॥ अथ चिंतामणिः ॥ सव्यभिचारोऽपि त्रिविधः साधारणासाधरणानु- । पसंहारिभेदात् तत्र सव्यभिचारः साध्यतदभावप्रसंजक इति न त्रितयसाधारणं लक्षणम् एकस्यो भयं प्रत्यसाधकत्वात् अनापादकत्वाच्च नाप्युभयपक्षवृत्तित्वं उभयव्यावृत्तम् वा तत्त्वम् अननुगमात् । अथ साध्यसंशयजनककोटिद्वयोपस्थापकपक्षधर्मताज्ञानविषयत्वे सति हेत्वाभिमतः सः, विप्रतिपत्तिस्तु प्रत्येकं न तथा न वा पक्षवृत्तिः, साधारणमन्वयेन असाधारणं व्यतिरेकेण अनुपसंहारी पक्षएवोभयसाहचर्येण कोटिद्वयोपस्थापकः । केवलान्वयिसाध्यकानुपसंहारी अयं घट एतत्त्वादित्यसाधारणश्च सङ्केतुरेव तदज्ञानं दोषः पुरुषस्य । अतएवासाधारणप्रकरणसमयोरनिव्यदोपत्वम् अन्यथा सद्धेतौ वाधादिज्ञाने हेत्वाभासाधिक्यापत्तिः नच प्रमेयत्वेनाभेदानुमाने | शब्दोऽनित्यः शद्दाकाशान्यतरत्वादित्यत्र च साधारणेऽव्याप्तिः तयोः साध्यवदवृत्तित्वेन विरुद्धत्वा दिति चेन्न एतदज्ञानेऽपि साधारण्यादिप्रत्येकस्य ज्ञानादुद्भावनाच्च स्वपरानुमितिप्रतिबन्धात् उद्भा वितैतन्निर्वाहार्थं साधारणादेरवश्योद्भाव्यत्वेन तस्यैव दोषत्वाच्च । एतेन पक्षवृत्तित्वे सत्यनुमिति| विरोधिसंबंधाव्यावृत्तिरनैकांतिकः सपक्षविपक्षवृत्तित्वमुभयव्यावृत्तत्वमनुपसंहारित्वं चानुमितिवि
For Private and Personal Use Only
***************** XXX