SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शिरो • ५ XKNKXKKKKKKKKKYKYHM KJ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमेव संशयजनकं नतु तदानीं साहचर्य्यज्ञानमपेक्षत इति नये तु यद्रूपविशिष्टत्वे न गृहीतस्य धर्मस्य धर्मिवृत्तिताज्ञानं तथा तत्त्वमेव वाच्यम् । तच्चेति ननु साधारण्यं न साध्यतदभाववदयावृत्तत्वं वृत्तिमतस्तथात्वासंभवात् एककोटिव्याप्यस्येव | एककोटिमद्व्यावृत्तस्यापि धर्मस्य बुद्धेर्विशेषदर्शनतया संदायविरोधित्वाच्च सत्प्रतिपक्षे च परामर्शाप्रामाण्यसंशयोत्तरमेवसाध्यसंदेहा न्नापि निश्चितसाध्यतदभाववद्व्यावृत्तत्वं तद्धि यत्र यत्र साध्यादिमत्तानिश्चयस्तु व्यावृत्तत्वं येन येन रूपेण यत्र यत्र तन्निश्चयस्तेन तेन तद्व्यावृत्तत्वं वा । आये सर्व्वाणि साध्यव्याप्यवंति साध्यवंति सर्व्वाणि वा असाध्यवंति प्रमेयाणीत्यादिनिश्चये सामान्यतः पक्षेऽपि साध्यादिनिश्चयादतथात्वप्रसंगः। द्वितीये तु विशिष्यपक्षे साध्यनिश्चयं विनैव शद्दादिना साध्यव्याप्यत्वनिर्णयेऽपि तथात्वापत्तिः नैष दोषो यादृशव्याप्तिग्रहे सति नासाधारण्यं तदग्रहभावेन विशेषलक्षणस्य साधारव्याभावविशिष्टस्य तदुग्रहस्य चाभावेन सामान्यलक्षणस्य विशेषणादतिव्याप्तिनिरासात् विशिष्टाभावादेव च साधारण्ये व्याप्तिभ्रमदशायां नाव्याप्तिरितिचेत् एवं सत्येकेन व्याप्तौ गृहीतायामसाधारणस्य न किंचिदपि प्रति सव्यभिचारित्वं स्यात् स्याहा तदपि तत्पुरुषघटितमसाधारण्यवत् साध्यादिव्याप्यवत्त्वेन रूपेण साध्यादिमत्त्वनिश्चयेऽव्याप्ति प्रसंगाच न हि घटोऽनित्यो घटाद्व्यावृत्तं शद्दत्वमितिवत् अनित्यत्वव्याप्यवतो व्यावृत्तं दशद्वत्वमिति तदानों निश्वयः अभिहितंच निश्चितसाध्यतदभाववदयावृत्तत्वं न संशयप्रयोजकं किंतु साध्यतदभावाभ्यां सहचरितत्वमिव तत्सहचरिताभावप्रतियोगित्वम् व्याप्यविरुद्धयोस्तु तत्त्वेन निश्चितयोर्द्दर्शने विशेषदर्शनवशादेव न संशय इति विभाव्य लक्षणान्तरमाह विरुद्धान्येति विशिष्टसाध्यहेतुसामाना|धिकरण्यग्रहाविरोध्यर्थकमर्थतो विरोधिविशेषणं तेन साध्यसाधनयोरप्रसिद्धेरवृत्तित्वस्य परंपरा सामानाधिकरण्यादीनांच निरास: पक्षपदंच धर्मिमात्रपरं तथाच यद्धमिवृत्तित्वं हेतोर्ज्ञापिते तत्र तत्रैवानुमितिविरोधि यद्रूपं तत्त्वमित्यर्थः साध्यव्यापकीभू For Private and Personal Use Only ***************
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy