________________
Shri Mahavir Jain Aradhana Kendra
**** ॐ *ॐ*K9KKKKK9
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वाच्यं व्यापकसामानाधिकरण्यमिह व्याप्यत्वं तेन च द्वितीयस्य भेदः तिस्तुल्यैव । केचित्तु असावारण्या भावकालावच्छिन्नसाध्यतदभावव्याप्तिशून्यत्वं विवक्षितं विशेषणाभावात् वस्तुतो व्याप्यस्य विरुद्धस्य वा असाधारणस्य संग्रह इत्याहुस्तञ्चित्यम् व्यर्थेति विरोधादेर्वारकं साध्याभावेत्यादि व्यर्थं तस्य पार्थक्ये प्रमाणाभावादितिभावः । प्रथममित्यादि गगनमित्यादि च दूषणं यथाश्रुते नापीत्यादि सपक्षविपक्षत्वावच्छिन्नव्यावृत्तत्वं सर्वतद्व्यावृत्तत्वं व्यर्थेति सपक्षवृत्तित्वविपक्ष व्यावृत्तत्वयोर्दूषकतायामनुपयोगादितिभावः । पक्षातिरिक्तेत्यादि व्याप्यविरुद्वयोरसाधारण्योः संग्रहाय पक्षातिरिक्तपदे पक्षत्वं संदिग्धसाध्यकत्वम् धूमेत्यादि दूषणं यथा श्रुते नतु सप्तमीसमासात् पक्षातिरिके वर्त्तते यत्साध्यवन्मात्रवृत्ति साध्याभाववन्मात्रवृत्ति च तद्भिन्नत्वमि त्यर्थे इति ध्येयम् । पक्षवृत्तीत्यादि विरोधः साध्यासामानाधिकरण्यं पक्षवृत्तित्वसाध्यासामानाधिकरण्यग्रहाविरोधी योऽनुमितेरौपयिकस्य जनकज्ञानविषयस्य संबंधस्य सपक्षसत्त्वादेरभावस्तद्दत्वमित्यर्थः सपक्षविपक्षव्यावृत्तत्वस्य चासाधारण्यस्य असा निश्चये पक्षे साध्यसामानाधिकरण्यसंदेहान्न तस्य तज्ज्ञानविरोधित्वं पक्षवृत्तौ विरुद्धभिन्ने च वर्त्तने यस्तादृशोऽभाव स्तद्दत्त्वमर्थ इति केचित् । पूर्वोक्तलक्षणानां यथोक्तरीत्या यथामतं नाव्याप्त्यादिसंभावना । परंतु तज्ज्ञानस्यानुमित्यप्रतिबंध| कतया तेषां हेत्वाभासतावच्छेदकत्वं नघटते । नघटतां किं तेन तेषां हेत्वाभासविभागमात्रोपयोगित्वादित्याशयेनाह उच्यत इति । संदेहं प्रत्येव साधारण्यादिविशिष्टधर्म्मवद्धर्मिज्ञानत्वेन हेतुता तज्जनककोटिइयोप स्थातें प्रति तु तादृशधर्म्मज्ञानत्व. | मात्रेणेत्यभिप्रेत्याह उभयेति साध्यसंदेहजनकेति प्रकृतं यथाकथंचित् कोटिइयोपस्थितिः स्मृत्यनुभवसाधारणीसंदेहजननीनियामकंतु साधारण्यादिविशिष्टधर्मवत्ताज्ञानम् अतएव धारावाही संदेह इति मते तु धर्मितावच्छेदकविशिष्टे धर्मिणि यद्रूप - विशिष्टज्ञानं साध्यसंदेहजनकं तद्रूपवत्त्वमेव वक्तव्यं कोटिइयसहचरितत्वादिना ज्ञातस्य उर्द्धत्वादेरूर्द्धत्वत्वादिना धर्मिणि
For Private and Personal Use Only
K•••••••* * * * * * * * ******