________________
Shri Mahavir Jain Aradhana Kendra
शिरो ०
४
36 % •%••••••* ०9 36 76 में भ
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
विभाजकं अन्यथा अतिप्रसंगइत्यभिप्रेत्य दूषयति नैतदिति । वस्तुतस्तु उपस्थापकत्वादिज्ञान मनुमिते स्तज्ज - नकस्य वा न प्रतिबंधकं विरोधिविषयकत्वाभावात् एवमुत्तरत्रापि पक्षवृत्तित्वे सतीति विरोधित्वं विरोधिज्ञान विषयत्वं अव्यावृत्तिपदं अत्यंतायोगव्यच्छेदार्थकं तेन संयोगसंबंधेन व्यभिचारिणि द्रव्ये हेतौ व्यभिचाराभावदशायां नाप्रसंगः साध्यवद्वृत्तिस्तुनासाधारण इति हृदयं । अपक्षधर्म धूमादि वारणाय सत्यतं पक्षः संदिग्धसाध्योधर्मी विशिष्ट हेतौ तद्वृत्तित्वग्रहाविरोधित्वंच तदर्थः तथाच पक्षतावच्छेदकरूपेणपक्षे साध्यतावच्छेदकरूपेण साध्यस्य हेतुतावच्छेदकरूपे| हेतोर्व्वा यज्ज्ञानम् तद्विरोधित्वस्यलाभात् पक्ष साध्यसाधनाप्रसिद्धिस्वरूपासिद्धिवाधप्रतिरोधानां निरासोऽसिद्धिसंकीर्ण संग्रहः विरोधोऽपि फलतः प्रतिरोधएव तदन्यत्वेन वा विरोधिविशेषणीयं वक्ष्यते च सिद्धांते विरुद्धान्येति हेतुसाध्यसामानाधिकरण्यग्रहाविरोध्यर्थकं संबंधपदबलेन प्रकृतहेतुसंबंधितया विरोधित्वे तात्पर्योपवर्णनेन प्रायशो बाधादिवारणेऽपि घटत्वमनित्यं घटत्वादित्यादौ प्रयत्नसाध्यमिवतत्प्रतिभाति वस्तुतस्तुअनुमितिपदं तत्कारणज्ञानपरं आश्रयासिद्ध्यादिवारणाय सत्यंतं तादृ| शपक्षकतादृशहेतुकग्रहाविरोध्यर्थकं अनया च वाचोभंग्याव्याप्तिग्रहविरोधित्वमेवाभिदित्सितं तेन वन्हिमान् वन्हिमान-हदत्वादित्यादौ हेतोः साध्यवद्वृत्तित्वादेर्नासंग्रहः विवेचयिष्यते चेदमुपरिष्टात् । सपक्षेति संपातायातं अतएवानुपदं विरुद्धोपीऽत्यादिकं व्यर्थेति विशेषणं पक्षवृत्तित्वं साध्याव्याप्यत्व इति हेत्वाभासत्वम् हेतुवदाभासमानत्वम् वत्यर्थश्च वृत्तिमत्वं एवंच | साध्यतदभावव्याप्यत्वग्रहविरोधिवृत्तिमन्वग्रहाविरोधिरूपवत्वमर्थः । साध्यतद्भाववद्वृत्तित्वं साधारण्यम् निश्चितसाध्यतद्भाववह्यावृत्तत्वमसाधारण्यम् तच्च व्याप्तिद्वयग्रहविरोधीति हृदयं असिद्धिविशेषस्ववृत्तित्वं वृत्तिमत्वग्रहविरोधि साध्यतद्भाववद्दयावृत्तत्वमपि यदीदृशं तदा असिद्धिरेवनोचेदिदमेवासाधारण्यं बोध्यं साध्याप्रसिद्ध्यादिवारणाय विशिष्टसाध्यसाधनग्रहाविरोधित्वं
For Private and Personal Use Only
13988368°•••••••••*
४