________________
Shri Mahavir Jan Aradhana Kendra
www bath.org
Acharya Shri Kalassagarsun Gyarmandir
*ताभावप्रतियोगित्वंतु तथा बाधप्रतिरोधौ तु धम्मिविशेषितत्वात् न तादृशौ सर्व साध्याभाववत् तयाप्यवत्त्वेत्यादिकंच सा
ध्यवत्त्वग्रहविरोधित्वेन सामानाधिकरण्यग्रहविरोधिसाध्यानुमितिसामान्याविरोधित्वं वा विशेषणं तेनैवेति तेनानुमितिविरोधिना विपक्षवृत्तित्वादिना एवकारेणानुगमकं रूपं व्यवच्छेयं तस्य हेत्वाभासतावच्छेदकत्वं निरस्यति हेत्वाभासस्य लक्षणानुरोधेनेति तेनानुमितिविरोधित्वघटितलक्षणकरणेन असाधारणस्य सत्प्रतिपक्षोत्थापकतया दूषणत्वपक्षे नाव्याप्तिरितरथा पुनरव्याप्तिरेव साध्याभावज्ञापकत्वेन साक्षात्साध्यवत्तानुमितिविरोधित्वेन । सर्वमनित्यमित्यादि संप्रदायमनुरुध्योक्तम् अतएव तावग्रेअन्तर्भावयिष्यति नापीति निश्चितसाध्यवति साध्यवद्भिन्ने च वर्तमानत्वमित्यर्थः । अनुपसंहार्य इति साध्यवदन्यवृत्तित्वांशस्य तत्रापि सत्त्वादिति भावः नापीति इह सपक्षत्वं न निश्चयगर्भमतो नाभेद: घट इत्यादि इत्यस्य विरुद्धस्य अनुपसंहार्य्यस्य प्रसिद्धस्य च विरुद्धांतरस्य व्यवच्छेद्यत्वादित्यर्थः अन्वयतो व्यतिरेकतश्च सहचाराग्रहदशायामीदृशं हित्वमनुपसंहारीति मतेनेदमित्यपि कश्चित् । विपक्षेति अत्र विपक्षत्वं साध्याभावववम् अनुपदमेव वस्तुगत्या साध्याभावववृत्तित्वेन साधारण इति मूलएव स्फूटतरमभिधानात् न तु निश्चयगर्भ तज्ज्ञानस्याप्रतिबंधकत्वात् न च वस्तुतो यत्र तन्निश्चयस्तवृत्तित्वज्ञानं प्रतिबंधकं रूपांतरेण साध्यानाववत्तया निश्चिते रूपान्तरेण हेतुज्ञानेऽप्यप्रतिबंधात् नचैकेन रूपेण तत्तथा गौरवात्
हेतुसाध्याभावयोः सामानाधिकरण्यास्फुरणेनाविरोधात्, साध्याभाववद्वत्तिहेतुरित्यादि शहनानानामप्रतिबंधापाताच्च यत्तु *साध्याभावांशे निश्चयरूपं शेषांशे संशय साधारणं साध्याभाववत्तित्वज्ञानं प्रतिबंधकमन्यथा पक्षएव साध्यसंदेहेन संदिग्धा-15
नैकांतिकत्वापत्तोरति यदाहुः नहि पक्षे पक्षसमेवा व्यभिचार इति तन्न व्याप्तिनिश्चये हेतौ व्यभिचारसंशयायोगात् तदनिश्वयदक्षायाम् अनुकूलतकास्फूर्ती संदिग्धानकांतिकत्वस्येष्टत्वात् हेतुसाध्यानावसामानाधिकरण्यावगाहितयैव ज्ञानस्य व्याप्ति
For Private and Personal Use Only