________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृतान्नवर्गः।
२७१ अथ पापडपूरीवटकादिगुणाः. धूमणी रचिता हिङ्गुहरिद्रालवणैर्युता ॥ ४२ ॥ जीरकस्वर्जिकाभ्यां च तनूकत्य च वेल्लिता। पर्पटास्ते सदाङ्गारभृष्टाः परमरोचिकाः ॥४३॥ दीपनाः पाचना रूक्षा गुरवः किश्चिदीरिताः। मौद्गाश्च तद्गुणाः प्रोक्ता विशेषाल्लघवो हिताः ॥ ४४ ॥ चणकस्य गुणैर्युक्ताः पर्पटाश्चणकोद्भवाः । स्नेहभृष्ट्रास्तु ते सर्वे भाषेयुर्मध्यमा गुणैः ॥ ४५ ॥ माषाणां पिष्टिका पूज्या लवणाकहिङ्गुभिः । तया पिष्टिकया पूर्णा समिता कतपोलिका ॥ ४६॥ ततस्तैलेन पक्का सा पूरिका कथिता बुधैः । रुच्या स्वाही गुरुः स्निग्धा बल्या पित्तास्त्रदूषिका ॥ ४७ ॥ चक्षुस्तेजोहरी चोष्णा पाके वातविनाशिनी । तथैव घृतपक्कापि चक्षुष्या रक्तपित्तहृत् ॥४८॥ मषाणां पिष्टिका युक्ता लवणाकहिङ्गुभिः । कृत्वा विदध्याहटकास्तास्तैलेषु पचेच्छनैः ॥ ४९ ॥ विशुष्का वटका बल्या बृहणी वीर्यवर्धनी। वातामयहरी रुच्या विशेषादर्दितापहा ॥ ५० ॥ विबन्धभेदिनी श्लेष्मकारिणीऽत्यग्निपूजिता । संचूर्ण्य निक्षिपेत्तके भृष्टं जीरकहिङ्गुभिः ॥ ५१ ॥ लवणं तत्र वटकान् सकलानपि मजयेत् । शुक्रलस्तन वटको बलकद्रोचनो गुरुः ॥५२॥ विबन्धहृद्विदाही च श्लेष्मलः पवनापहः। राज्यक्तपातिनो वान्यान् पाचनांस्तांस्तु अक्षयेत् ॥ ५३॥
For Private and Personal Use Only