________________
SMA
Kenda
Acharya StarKalassingaisait.Gyanmantire
अथ नित्यमहत्त्वेन, व्योमवद्विमुतास्य चेत् ॥ नैवं तत्परिमाणं हि, यदुत्कर्षापकर्षभाक् ॥ २९ ॥ ८७॥
अथ परे प्रतिपादयेयुरात्मनो महत्त्वं तावनिर्विवादं द्रव्यचाक्षुषप्रति कल्पनीयहेतुभावस्य महत्वस्य लाघवेन जन्यद्रव्यसाक्षाकारत्वावच्छिन्नं प्रत्येव हेतुत्वकल्पनात्, आत्मसाक्षात्कारनिर्वाहायात्मनि महत्त्वस्यावश्यकत्वात, तच्च महत्त्वं न जन्यं, कार्य हि महत्त्व अवयवबहुत्वजन्यं स्यात्तन्महत्त्वजन्यं वा प्रचयजन्यं वा, न च त्रितयमपि निरवयवस्यात्मनः सम्भवतीति ।। एवं चायं प्रयोगा, आत्मा विभुनित्यमहत्त्वादाकाशवदिति चेत्, अत्रोच्यते-अत्र हि परमप्रकृष्टपरिमाणवत्त्वलक्षणं विभुत्वं साध्यते, न च नित्यमहत्त्वस्य परमप्रकर्षविपक्षबाधको जागर्ति तर्कः, अपकृष्टत्वे तस्य जन्यत्वापत्तिर्वाधिका, गगनमहत्त्वावधिकापकर्षस्य बहुत्वजन्यतावच्छेदकत्वादिति चेत्, न, परमाणुपरिणामसाधारणतया तस्य कार्यतानवच्छेदकत्वात् परमाणुपरिमाणे व्यभिचारेण त्रुटिमहत्त्वावधिकोत्कर्षेण समं साङ्कर्यात्तादृशापकर्षस्य जातित्वासिद्धथा बहुत्वजन्यतानवच्छेदकत्वाच्च, वस्तुत आत्मपरिमाणमपि प्रचयविशेषादुत्कर्षापकर्षों भजज्जन्यमेवेति हेतोरेवासिद्धिः ॥२९॥ नन्वेवमात्मनः सावयवत्वापत्तिरिति चेत्, किचातः। सावयवत्वे सति तस्य कार्यत्वं स्यादिति चेत्, किमिदं कार्यत्वं प्रागसतः सचालामः पूर्वाकारपरित्यागेनोचराकारोपादानं वा, नाद्या, असत उपायसहस्रगाप्युत्पादयितुमशक्यत्वात, अन्यथा शशविषाणस्याप्युत्पत्तिप्रसङ्गात्, अन्त्ये तु तादृशं कार्यत्वमात्मन इष्टमेवेत्यभिप्रेत्याह
एवं सावयवत्वं त-न्नित्यत्वं नैव बाधते ॥ कथञ्चित्परिणामित्वं, विना तन्न घटेत यत् ॥३०॥८॥
न हि सावयवत्वेनात्मनः कथश्चित्परिणामित्वलक्षणेऽनित्यत्वे द्रव्यैकरूप्यलक्षणनित्यत्वव्याघातः येन प्रतिसन्धानाद्यभावप्रसङ्गः,नच सावयवत्वे तस्य प्राश्रीसद्धसमानजातीयावयवारम्यत्वप्रसक्तिः, अवयवजन्य एव कार्येऽवयवानां जनकत्वात्, अस्य
६ मतिनिरूपणे
व्यञ्जनाव
ग्रहप्रस्तावे | मनसः प्रा| प्यकारित्वखण्डने आमविभुत्वस्य खण्डनम् ॥
*
ARE
For Private And Penal Use Only