________________
SMA
Kenda
Acharya Sulkalasssagarmail.Gyanmantire
VACHARGEOGAVARANA
मतिनिरूपर्ण व्यञ्जनावप्र
हप्रस्तावे मनसः प्राप्यकारित्वस्य खण्ड
नम्॥
द्धृतम्)।किश्च मनोयाप्यकार्यपि प्रतिनियतस्यैव ग्राहकम,ननु मनसोऽपि सर्वग्राहकत्वप्रसङ्गतो नाप्राप्यकारित्वं किन्तु प्रतिनियतग्रा- हित्वेन] तत्प्राप्यकारि स्यादिति चक्षुषोप्राप्यकारित्वसाधने दृष्टान्तीकृतस्य मनसः साध्यसाधनोभयवैकल्यमिति चेत्, न, ज्ञेयसम्पर्ककृतानुग्रहोपघातलक्षणलिङ्गाभावेन तस्य तत्सम्पर्कासि द्वेः,अन्यथा जलज्वलनादिचिन्तया तस्य क्लेददाहादिप्रसङ्गः, अमुकत्र गतं मे मन इति प्रयोगस्य च गत्यर्थानां धातूनां ज्ञानार्थत्वेनैतदर्थग्रहणाय व्यापृतं मे मन इत्यर्थः ॥ आह च-'गंतुं नेएण मणो, संवज्झइ जग्गओ व सिमिणे वा ।। सिद्धमिदं लोमिवि, अमुगत्यगओ मणो मित्ति ॥२१३॥"[गत्वा ज्ञेयेन मनः, सम्बध्यते जाग्रतो वा स्वमे वा ।। सिद्धमिदं लोकेऽपि अमुकत्रगतं मनो मे इति।।] "नाणुग्गहोवघाया-भावाओ लोअर्णव, सो इहरा ।। तोयजलगाइ चिंतणकाले जुजेजदोहिंपि।।२१४॥"[नानुग्रहोपघाताभावाल्लोचनमिव तदितरथा ॥ तोयज्वलनादिचिन्तनकाले युज्येत द्वाभ्यामपि]॥१७॥
किञ्च भावमनो द्रव्यमनो वा बहिर्गत्वा ब्रेयेन सम्बध्यत इति विकल्प्य दोषमाहकिश्च भावमनो गच्छेद्-बहिर्द्रव्यमनोऽथवा ॥ नाद्यः शरीरवृत्तित्वा-दात्मनोऽनिर्गमाद् बहिः॥२५॥८३|
उक्तविकल्पद्वये हि प्रथमविकल्पो न प्रथते भावमनसश्चिन्ताज्ञानपरिणामरूपस्य जीवानन्यत्वाज्जीवस्य च शरीरमात्रवृत्तित्वेन तद्रूपादीनामिव बहिनिर्गमासम्भवाद्,आहच-"दव्वं भावमणो वा, वएज्ज जीवो अहोइ भावमणो ।। देहव्यावितणओ, न देहवाहिं तओ जुत्तो।।२१५॥"[द्रव्यं भावमनोवा ब्रजेज्जीवश्च भवति भावमनः॥ देहव्यापित्वान्न देहबाहिस्ततो युक्तः॥]२५।। नन्वात्मनः शरीरव्यापित्वमेवासिद्ध सर्वगतत्वादिति चेद्, उच्यते-[प्रतावस्येह द्वे पत्रे सप्तगाथाश्च गता इति लिखित्वापरावृत्तिश्च कृता]
कर्तृत्वं व्योमवन्न स्यात्-सर्वगत्वे किलात्मनः । प्रकृतेरेव कर्तृत्वं, युज्यते न कथञ्चन ॥२६॥८॥
For Private And Penal Use Only