________________
मतिनिरूपये व्यञ्जनाक ग्रहनिरूपये चक्षुषोप्राप्यकारित्वव्यवस्थाप
नम् ॥
CIRCUCURUKSHARMA
दृष्टान्तेन तावच्चक्षुषोऽयाप्यकारित्वं व्यवस्थापयतिअमाप्यकार्यधिष्ठाना-सम्बद्धग्राहि लोचनम् ।। अनुग्रहापघाताभ्यां, विषयाद् भाव्यमन्यया ॥१६॥७४॥
चक्षुरप्राप्यकारि अधिष्ठानासम्बध्धार्थग्राहकेन्द्रियत्वाद्, मनोवद्, अधिष्ठानेत्यादिविशेषणेन स्पर्शनादाविन्द्रियपददानेन च प्रदीपप्रभायां व्यभिचारः परिहतः, न चाप्रयोजकत्वं सम्बद्धार्थग्राहकत्वे तस्य करवालजलावलोकनादिनोपघातानुग्रहप्रसङ्गात्, न चासिद्ध एव तस्योपघातानुग्रहाभावो भूयो भूयः सूरकरावलोकनेन जलावलोकनेन च दाहशत्यलक्षणतदर्शनादिति वाच्यम्, अवलोकनानन्तरं चक्षुर्देशं प्राप्तेन मूर्तेन रविकरादिनोपघातस्य सम्भवाजलावलोकनादौ चोपघाताभावेनानुग्रहाभिमानात् स्वतस्तद्देशं प्राप्तेन च चन्द्रमरीचिनीलादिनाऽनुग्रहोऽपि भवत्येव, यदि च चक्षुः स्वत एवानुग्राहकोपघातकवस्तुनी संमृज्यानुग्रहोपघातौ लभेत तर्हि सूरकरावलोकनादिव करवालावलोकनादप्यभिघातः स्यात्, तदिदमाह-"लोअणमपत्तविसय, मणोच्च जमणुग्गहाइसुबंति ॥ जलसूरालोआइसु, दीसन्ति अणुग्गहविघाया ॥२०९।। डझेज पाविउ रवि कराइणा फरिसणं व को दोसो ॥ मन्नेज अणुग्गई पिवु-वघायाभावओ सोमं ॥२१०॥ गंतु ण रूवदेस, पासइ पत्तं सयं व णियमोयं ॥ पत्तेण उ मुत्तिमया, उबघायाणुग्गहा होज्जा ॥२११॥" [लोचनमप्राप्तविषय, मन इव यदनुग्रहादिशन्यमिति ॥ जलसूरालोकादिषु दृश्यते अनुग्रहविघातौ ॥ दयेत प्राप्य रविकरादिना स्पर्शनमिव को दोषः ॥ मन्येतानुग्रहमिवोपघाताभावतः सौम्य! ।। गत्वा न रूपदेश, पश्यति प्राप्त स्वयं वा | नियमोयं ।। प्राप्तेन तु मर्तिमतोपघातानग्रही भवेताम ॥॥१६॥ननु नयनान्नायना रश्मयो निर्गत्य प्राप्य च वस्तु रविरश्मय इव प्रकाशमादधति सूक्ष्मत्वेन तैजसत्वेन च तेषां वन्यादिभिर्दाहादयो न भविष्यन्तीति चेत्, न, चक्षुषस्तैजसत्वस्यैवासिद्धेः, तथाहि
EHAS
*