SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सविवरणं श्रीज्ञाना र्णवप्रकरणम् ।। ॥ ३४ ॥ www.ketatirth.org प्यत्वात्, तत्र गुणप्रवेशस्य गौरवकरत्वात्, एतेन ' श्रोत्रेन्द्रियं द्रव्याग्राहकं रूपस्पर्शाग्राहकवहिरिन्द्रियत्वाद् रसनवद्' इत्यपि निरस्तं, अप्रयोजकत्वाद् द्रव्यग्रहप्रयोजकप्रत्यासत्याभिधानेन तद्विरहरूपविपक्षवाधकतर्कानुत्थानात् । इत्थं च शब्दो न पौद्गलिकः स्पर्शशून्याश्रयत्वाद्, अतिनिबिड प्रदेश प्रवेशनिर्गमयोरप्रतिघातात्, पूर्व पचाद्या (चा) ऽवयवानुपलब्धेः, सूक्ष्ममूर्त्तान्तराप्रेरकत्वाद्, गैगनगुणत्वाचेति हेतवो निरस्ता वेदितव्याः, भाषावर्गणादेस्तदाश्रयस्य स्पर्शवत्वेन स्पर्शशून्याश्रयत्वस्यासिद्धेः भियादिकमुपभिद्य प्रसर्पिणा मृगमदादिद्रव्येण द्वितीयस्याऽनैकान्तिकत्वात् तृतीयचतुर्थयोथोरकादिना धूमादिना च तथात्वात्, पञ्चमासिद्धतायास्तु प्रदर्शितत्वात् उच्छृंखलनैयायिकास्तु “ निमित्तपवनस्यैव गुणः शब्दः, अत एव निमित्तपवननाशानाशः, समवायिकारणनाशस्य समवेतकार्यनाशं प्रति हेतुत्वात्, कर्णसंयुक्त निमित्त पवनसमवायाच्च तद्ग्रहः, न च वीणावेणुमृदङ्गादेरेव कुतो नायं गुण इति वाच्यं, तेषां अननुगतत्वातु, निमित्त पवनस्यैवानुगतत्वेन समवायिकारणत्वौचित्यात् तेषां निमित्तकारणत्वे क्लृप्तेऽपि समवायिकारणत्वा कल्पनात्सम्बन्धभेदेन कारणताभेदाद्" इत्याहुः, तदसत्, पवनगुणत्वे शब्दस्य तत्स्पर्शस्येव स्पार्शनप्रसङ्गात्, तस्य स्पार्शनप्रतिबन्धकत्वकल्पने च महागौरवात्, शब्दगुणस्पार्शनजनकतावच्छेदकजात्यभावान्न दोष इति चेत्, न, तादृशजातेरसिद्धेः, गुणचाक्षुषजनकतावच्छेदिकया साङ्कर्यादिति दिग्।। अधिकं स्याद्वादरहस्येऽनुसन्धेयम् ।। तस्माच्छ्रोत्रघाणे अपि प्राप्यकारिणी इति व्यवस्थितम् ।। आह च - "गेण्डंति पचमत्थं, उवघायाणुग्गहो जलद्धी ओ । बाहिज्जपूरणासारिसादओ कहम संबद्धे || २०८ || " [गृह्णीतः प्राप्तमर्थं उपघातानुग्रहोपलब्धेः || बाधिर्यपूतिनासार्श आदयः कथमसम्बद्धे ] || १५॥ तदेवं नयनमनोवर्जेन्द्रियाणां प्राप्यकारित्वं व्यवस्थापितम् । अथ नयनमनसोरप्राप्यकारित्वस्य व्यवस्थापनीयतया मनो For Private And Personal Use Only Acharya Shel Kailassagarsun Gyanmandir ॥ मति व्य० शब्दस्या काशगुणत्व खण्डने शब्दे पौगालिकत्वा भावसाधक हेतूनामव्या कर शब्दस्य पवनगुणत्वखण्डनःश्च ॥ ॥ ३४ ॥
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy