SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सविवरणं श्रीज्ञाना वप्रकरणम् ।। ।। ३५ ।। www.ketafirth.org अदृष्टकल्पनापत्ति-स्तैजसत्वे हि चक्षुषः ॥ न च तत्साधकं किञ्चिद्-वलवन्मानमीक्ष्यते ॥ १७ ॥ ७५ ॥ चक्षुषस्तैजसत्वकल्पनेऽनुद्भूतरूपानुद्भूतस्पर्शतेजोन्तरं कल्पनीयमित्यदृष्टकल्पनापत्तिः परमते, न च तत्तैजसत्वसाधकं किञ्चिद्बलवत्प्रमाणमीक्षामहे, न च चक्षुस्तैजर्स रूपादिषु मध्ये रूपस्यैवाभिव्यञ्जकत्वात्प्रदीपवदित्यनुमानात्तत्सिद्धिः, स्वस्पर्शव्यञ्जकत्वेन प्रदीपदृष्टान्तस्य साधनवैकल्याद्विषयेन्द्रिय संयोगनानैकान्तिकत्वाद्, द्रव्यत्वे सतीति विशेषणेऽप्यञ्जनविशेषेणानैकान्तिकत्वाच्च, एतेन "रूपसाक्षात्कारासाधारणकारणं तैजसं रसाव्यञ्जकत्वे सति स्फटिकाद्यन्तरितप्रकाशकत्वात्प्रदीपवद्" इत्यपि निरस्तम् ।। अञ्जनादिभिन्नत्वे सतीति विशेषणदाने चाप्रयोजकत्वाच्चक्षुः प्रदीपयोरेकया जात्या व्यञ्जकत्वासिद्धेः। एतेन "स्वप्नादिकमिवाञ्जनादिकं सहकृत्य मनसैव साक्षात्कृते निध्यादौ चाक्षुषत्वभ्रम एवेत्युक्तावपि न क्षतिः ॥ किं चैवं तवाखनादेः पृथक्प्रमाणत्वापत्तिः, मनो यदसाधारणं सहकार्य्यासाद्य बहिर्गोचरां प्रमां जनयति तस्य प्रमाणान्तरत्वनियमात् न च पटपटलाच्छन्नचक्षुषामञ्जनादिजनितो निध्यादिसाक्षात्कारो न प्रमेत्युक्तिर्युक्तिसहा, यथार्थप्रवृत्तिजनकत्वेन तत्प्रमात्वस्य व्यवस्थितत्वात् न च कारणबाधादप्रमात्वं, तस्यैवासिद्धेः, न च स्वप्नादिवदञ्जनादेर्निध्यादि सूचकत्वमेवेति युक्तं व्याप्तिग्रहादिकं विनाऽनुमितिरूपतत्सूचनाऽसम्भवात्, स्वमादिस्थले तु व्याप्तिग्राहकस्वमशास्त्राद्यनुसरणनियमादिति दिग् । ननु चक्षुर्यदि न प्राप्यकारि तदाऽसन्निहितत्वाऽ[विशेषात्कुड्यादिव्यवहितस्यापि ग्रहणप्रसङ्ग इति चेत्, न, अतिसन्निहितस्य गोलकादेवि भित्त्यादिव्यवहितस्यापि योग्यताऽभावादेवाग्रहात् । नन्वग्रावच्छेदेनैव चक्षुः संयोगस्य ग्राहकत्वान्न मूलावच्छेदेन तत्संयुक्तगोलकादिग्रहप्रसङ्गः । कुड्यादिव्यवहितानां स्वरूपयोग्यता च स्थैर्यपक्षे न परावर्तते, क्षणिकत्वपक्षेऽप्यप्रत्यासन्नानां सहकारिणां नातिशयजनकत्वं, प्रत्यासत्तिश्च परेषां निरन्तरोत्पादः अस्माकं तु संयो For Private And Personal Use Only Acharya Sai Kalassagarsu Gyanmandir मतिनिरूपणे व्यञ्जनावग्र हनिरूपणे परकल्पितस्य चक्षुषस्तैज सत्वस्य स्व ण्डनम् ॥ ॥ ३५ ॥
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy