________________
Shri Mahavir Jain Aradhana Kendra
www.kath.org
वग्रहइति मध्यमपदलोपेन समास आश्रयणीयः, अर्थभेदेऽपि पदसारूप्येणैकशेषाश्रयणाद्, एकशेषेण व्यञ्जनानामवग्रह इत्यपि स्यात् ॥ आह च "जिज्जइ जेणत्थो, घडोच्च दीवेण वंजणं तं च । उबगरनिंदिय सद्दाइ परिणयद्दव्यसम्बन्धो ॥ १९४ ॥ " [व्यज्यते नार्थी घट इव दीपेन व्यञ्जनं तच्च॥ उपकरणे न्द्रिय शब्दादिपरिणतद्रव्य सम्बन्धः ॥] नन्वयं व्यज्जनावग्रहो न ज्ञानमित्यत आहस तदन्ते ज्ञानभावा- दव्यक्तं ज्ञानमिष्यते (ताम् )|| अन्यथा प्रागलाभं तदन्तेऽपि न जनुर्लभेत् ||१२|| ७० || व्यञ्जनावग्रहसमयो ज्ञानवान्, ज्ञानोत्पत्तिघटकान्त्य समयशालित्वात् यदन्त्यसमये ज्ञानमुत्पद्यते स कालो ज्ञानवान्, यथा ईहाद्यसमयः इत्यनुमानाद् व्यञ्जनावग्रहस्य ज्ञानत्वसिद्धिः । आह च - "अन्नाणं सो वहिरा- इणं व तक्कालमणुवलंभाओ ॥ ण, तदंते तत्तो च्चिय, उबलभाओ तओ नाणं || १९५ || [अज्ञानं स बधिरादीनां वा तत्कालमनुपलम्भात् ॥ न तदन्ते तत एवोपलम्भारस ज्ञानम्] ननु यदि व्यञ्जनाऽवग्रहो ज्ञानं तर्हि बधिरादीनामपि शब्दादिज्ञानापत्तिस्तत्कालेऽपि तदुपलम्भापत्तिश्चेति चेत्, न, बधिरादीनांव्यञ्जनव्यञ्जनपूर्तिघटक शक्त्यभावादव्यक्तत्वेन तदनुपलम्भसम्भवाच्च, आह च - " तक्कालम्मि वि नाणं, तत्थस्थि तनुं ति तो तमव्वत्तं ॥ बहिराईणं पुण सो, अम्माणं तदुभयाभावा ॥ १९६ ॥ " [ तत्कालेऽपि ज्ञानं तत्रास्ति तनु इत्यतस्तदव्यक्तम् ॥ बधिरादीनां पुनः सोऽज्ञानं तदुभयाभावात् ||] एतेन 'यदन्त्यसमये ज्ञानमुत्पद्यते स कालो ज्ञानवानिति न व्याप्तिः, अवग्रहप्राक्काले व्यभिचाराद्' इति निरस्तं, ज्ञानसामग्री सम्पन्नत्वस्य हेतुविशेषणत्वाद्, अत एव सर्वेषु शब्दादिद्रव्यसम्बन्धसमयेषु ज्ञानमस्ति ज्ञानोपकारिशब्दादिद्रव्यसम्बन्ध समय समुदायक देशत्वादर्थावग्रह समयवदित्यपि प्रयोगः, यदि च कारणसाम्राज्येऽपि प्राक्समयेषु ज्ञानोत्पत्तिर्न स्वातन्त्य समयेऽपि न स्यादविशेषाद्, आह च " जइ वडमाणमसंखज्ज - समय सदाइदव्यसन्भावे || किह चरिमसमयसदाइ
For Private And Personal Use Only
Acharya Shel Kailassagarsun Gyanmandir
मतिनिरूपण प्रसङ्गे व्यञ्जनावप्रहस्य ज्ञानत्वव्यवस्थापनम् ॥