________________
सविवरणं ज्ञाना
प्रकरणम् ॥
धारणात्वेन सर्वासामप्येकीकृत्य ग्रहणाद्, यथा द्विरूपयोरप्यवग्रहयोरखग्रहत्वेन ग्रहणम् , आह च-"तुम्भं (झ) बहुयरमेआ, भणइ मई होइ धिइबहुत्ताओ । भन्नइ न जाइभेओ, इट्ठो मज्झं जहा तुझ ॥ १९१ ॥" [तव बहुतरभेदा भणति मतिर्भवति धृतिबहुत्वात् ॥ भण्यते न जातिभेद इष्टो मम यथा तव ॥] “सा भिन्नलक्खणा वि हु, घिइसामनेण धारणा होइ ।। जह उग्गहो दुरूवो, उग्गहसामनओ इक्को ।। १९२ ॥” [सा भिन्नलक्षणापि खलु धृतिसामान्येन धारणा भवति ॥ यथाऽवग्रहो द्विरूपोऽवग्रहसामान्यत एकः] नन्वषायसन्ततिरूपाविच्युतिः कथं धारणेति चेत्, अपायजन्यत्वाद्धारयामीत्यनुभवाच्च, स्मृतेरिव प्रत्यभिज्ञाया अपि धारणात्वात्तिमृणां धारणानां ग्रहणे न्यूनत्वमिति चेत्, न, स्मृतिपदेन तत्वाविषयकज्ञानविशेषग्रहणादिति दिग् ॥ १०॥ तदेवं विप्रतिपत्तीनिराकृत्य विभागं व्यवस्थाप्य प्रागुद्दिष्टमवग्रहं निरूपयतितत्र द्विधाऽवग्रहः स्याद्-व्यञ्जनार्थावलम्बनः॥ तत्रेन्द्रियार्थसम्बन्धो-व्यञ्जनावग्रहः स्मृतः ॥११॥६९॥
तत्रावग्रहहापायादिषु मतिभेदेषु, अवग्रहो द्विविधो व्यञ्जनावग्रहोर्थावग्रहश्च, तत्र प्रथमोपदिष्टत्वाद् व्यञ्जनावग्रहः प्राग्निरूपणीय इत्यत आह तति, आह च-"तत्थोग्गहो दुस्वो, गहणं जं होज्ज बंजण-स्थाणं ॥ वंजणओ य जमत्थो, तेणाईए तयं वुच्छं॥१९३॥"[तत्रावग्रहो द्विरूपो ग्रहणं यद् भवति व्यञ्जनार्थयोः॥ व्यञ्जनतश्च यदर्थस्तेनादौ तकं वक्ष्ये ।।] इन्द्रियार्थसम्बन्ध इति तत्समयभावीति तात्पर्यार्थः, योगार्थमाह-स्वयं व्यज्यते प्रकटीक्रियतेऽर्थोऽनेनेति व्यञ्जनं, कदम्बकुसुमगोलकधान्यमसूरकाहलाक्षुरप्राकारमांसगोलकरूपाणामन्तनिवृत्तीन्द्रियाणां शब्दादिविषयपरिच्छेदहेतुशक्तिविशेषलक्षणमुपकरणेन्द्रिय शब्दादिपरिणतद्रव्यनिकुरम्बम्, तदुभयसम्बन्धश्च, ततश्च व्यञ्जनेनेन्द्रियेण व्यञ्जनस्यार्थस्य तत्सम्बन्धस्य वाऽवग्रहो व्यञ्जना
मतिनिरूपण प्रसो अवअहमेदनिरूपर्ण तत्र
व्यञ्जनावग्रहलक्षणोपदर्शनम् ॥
॥३१॥
RECORAKARE
॥३१॥