________________
Sha
n
dra
GEORG
पनन् ।
सा यतोऽपायः ॥ ततो नास्ति धृतिः ॥ १८८ ॥ ]ति ॥ ९॥ अत्रोच्यते
मतिनिरूपणे अविच्युतिज्ञोनधारा, वासना ज्ञानकारणम् ।। स्मृतिश्चेदं तदेवेति, धीरतः किन्नु दूषणम् ॥१०॥६८॥ 15 अविच्युति
यचावदुक्तं उपयोगसातत्यलक्षणाऽविच्युतिरपायानातिरिच्यत इति, तदयुक्तम् , प्रथमापायोत्पत्त्युत्तरं क्वचिदुत्पद्यमानस्य १४ स्मृतिवासनास्थाणुरेवायं स्थाणुरेवायमित्याकारस्यान्तर्मुहूर्तमविच्युतस्य धारावाहिकापायसन्तानस्य प्रथमापायादभ्याधिकत्वात्, न च गृहीत- नांधारणाअाहित्वादस्याप्रामाण्यं, अन्यान्यकालविशिष्टत्वेन स्पष्टस्पष्टतरस्पष्टतमभिन्नधर्मकवासनाजनकत्वेन वा भिन्नस्यैव वस्तुनो ग्रहणा- त्वव्यवस्थादिति पाश्चः, वस्तुतो गृहीतग्राहित्वं नाप्रमात्वे तन्वं, अपि तु तदभाववति तत्प्रकारकत्वम्' इति न तस्याप्रामाण्यं इति दिग्॥ वासना च यद्यपि स्वतो न ज्ञान तथाप्यपायकार्यत्वात्स्मृतिकारणत्वाचोपचारतस्तस्य ज्ञानत्वं, 'इदं वस्तु तदेव, यत्प्रागुपलब्धं मया इत्याकारिका स्मृतिरपि वस्तुनिश्चयमात्रफलादपायादतिरिच्यते, पूर्वापरदर्शनानुसन्धानरूपा हि सेति, तस्मादविच्युतिस्मृतिवासनालक्षणानां तिसृणामपि धारणानां व्यवस्थितत्वान विभागव्याघातः। आह च-"भण्णइ इदं तदेवेति जा बुद्धी॥१८८ानणु ५ साऽवायब्महिआ, जओ असा वासणाविसेसाओ।जा यावायाणन्तर-मविच्चुई सा धिई णाम ॥१८९॥"[भण्यते इदं तदेवेति या बुद्धिः । ननु सापायाभ्याधिका यतश्च सा वासनाविशेषात् ।। या चापायानन्तरमविच्युतिः सा धृतिनाम] यदि चोक्तरीत्याऽपायविशेष एव धारणाभ्युपगम्यते स्मृतिरपिचाधिकाऽभ्युपेयते तदा भेदपश्चकप्रसङ्गो वज्रलेपायत एव । आह च-"तं इच्छंतस्स तुई, वत्थूणि य पंच, नेच्छमाणस्स ॥ किं होउ सा अभावो, भावो नाणं व तं कपरं ॥१९०॥"[ तामिच्छतस्तव वस्तूनि च पंच, नेच्छतः ॥ किं भवतु साऽभावो भावो ज्ञानं वा तत्कतरत् ] ननु भवतामपि धारणानां विरूपत्वाद्विभागातिक्रम इति चेत्, न,
*
SEPTESCG
*
For Private And Personal use only