SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra विवरणं श्रीज्ञाना र्णवप्रकरणम् ।। ॥ ३० ॥ 26-166. www.ketatirth.org धर्मव्यवसितेर्जायमानो निश्चयो यदि धारणाख्यामाविभृयात्तदा स्मरणस्यादु रुपह्नवत्वेनावग्रह ईहाऽपायो धारणं स्मरणश्चेति मतिज्ञानस्य पञ्च भेदाः प्रसजेयुः, एवञ्चागमविरोधः, किश्चैवं धारणाजनकं व्याप्यधर्मवत्ताज्ञानमपाय एवेतीहासंशय एव स्यात्तथाचोक्तदोषप्रसङ्गः । अथ व्यतिरेकधर्मज्ञानाज्जायमानो निश्चयोऽपायोऽन्वयधर्मज्ञानाज्जायमानस्तु धारणेति चेत्, न, उभयधर्मज्ञानाज्जायमानस्य निश्चयस्योभयरूपत्वप्रसङ्गादुक्तदोषप्रसङ्गाच्च, एतेन व्यतिरेकधर्मावगाही निश्चयोऽपायोऽन्वयधर्मावगाही तु धारणेत्यपि निरस्तम् ॥ ८ ॥ ननु धारणा नामाऽविच्युतिस्मृतिवासनालक्षणं मतिभेदान्तरं नास्तीत्यपायविशेष एव स इति न मम भेदपञ्चक प्रसङ्गो व्यक्तिभेदमनादृत्य जातिभेदान्वेषणनिष्टानां भवतामेव प्रत्युत भेदत्रयप्रसङ्ग इत्याशङ्कतेअविच्युतिरपायो हि, संस्कारो ज्ञानमेव न ॥ अन्योऽपायः स्मृतिस्तेन, चतुर्भेदा मतिः कथम् ? ॥९२॥६७॥ इह तावद्घटादिके वस्तुनि अवग्रहेहापाय रूपतयान्तर्मुहूर्तिक एवोपयोगो जायते तत्रापायोत्पत्त्युत्तरं उपयोगसातत्यलक्षणा चाsविच्युतिर्भवद्भिः स्वीक्रियते सा तावत्तावत्कालीनापायस्वरूपान्नातिरिच्यते नहि कालभेदेन वस्तुभेदो नाम क्षणभङ्गप्रसङ्गात् या चोपयोगोपरमे सति संख्येयमसंख्येयं वा कालं वासनाऽवतिष्ठत इत्यभ्युपगम्यते सा किं वस्तुविकल्पो वा स्मृतिज्ञानावरणकर्मक्षयोपशमो वा तज्ज्ञानजननशक्तिर्वा, नाद्य एतावन्तं कालं तद्वस्तुविकल्पायोगात्, नोत्तरौ अज्ञानरूपत्वेन तस्य मति - भेदत्वाऽसम्भवाद्, या चानुभूतस्य कालान्तरोपयोगलक्षणस्मृतिराविर्भवति साप्यन्वयधर्मेणापि निश्चयोऽपाय एवेति त्वदभ्युपगमादपायान्तरमेवेति अवग्रह ईहाऽपायश्चेति तिस्र एव मतेर्भिदाः सम्भवन्तीति कथं न विभागवाक्यविरोधः । आह च"काणुत्र ओगम्मि धिई, पुणोवओगे अ सा जओबाओ । तो णत्थि धिई ।। ति ।। ९ ।। [ कानुपयोगे धृतिः पुनरुपयोगे च For Private And Personal Use Only Acharya Shel Kailassagarsun Gyanmandir मतिनिरूपणेऽपाय धारणाविप्रतिपत्तिनिरासः ॥ ॥ ३० ॥
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy