________________
Shindra
HOWKARNALASSAGE
अन्वयाद् व्यतिरेकाद-प्यन्वयव्यतिरेकतः॥ अपायस्योदयात्तन्नो, भिदाः पञ्च स्युरन्यथा ॥ ८॥६६॥ | मतिनिरूप
अन्वयधर्मवत्ताज्ञानाव्यतिरेकधर्मवत्ताज्ञानादुभयधर्मवत्ताज्ञानाच्चाविशेषेणेहीतापायस्यैव प्रवृत्तेरसद्भूतधर्मनिषेधाकलनमाहा, णेऽपायतज्जन्यनिश्चयश्चापायः, परमित्युक्तेऽन्वयधर्मगवेषणजन्या धारणा न स्यात् । आह च-"कासइ तयन्नवहेरग-मेत्तओवगमणं भवे धारणाविप्रभृए। सम्भृअसमन्नयओ,तदुभयओ कासइ ण दोसो॥१८६॥ सव्वो वि य सोवाओ, भेए वा होंति पंच वत्थूणि।। आहेवंचिय चउहा, तिपत्तिनिमई तिहा अन्नहा होइ ।। १८७॥"[कस्यचित्तदन्यव्यतिरेकमावतोऽवगमनं भवेद् भूते ।। सद्भुतसमन्वयतस्तदुभयतः कस्यचिन्न
रासः ।। दोषः॥ सर्वोऽपि च सोऽपायो भेदे वा भवन्ति पंच वस्तूनि ॥ आहेवमेव चतुर्धा मतिस्त्रिधाऽन्यथा भवति ॥ ननु स्थाणुत्वव्याप्यवक्रकोटरादिमानयमित्यन्वयधमेज्ञानात् स्थाणुरेवायमित्यपायोस्तु पुरुषत्वव्याप्यकरचरणाद्यभाववानयमितिव्यतिरेकधर्म-18 ज्ञानात्तु कथं सः, नहि तदभावोऽन्वयेन व्यतिरेकेण वा स्थाणुत्वव्याप्यो घटादौ व्यभिचारात्, न च पुरुषत्वव्यापककराद्यभाववत्तानिश्चयादेव पुरुषत्वाभावज्ञानादभावप्रतिपत्तिः, व्यापकाभावज्ञाने व्याप्याभावज्ञानावश्यंभावनियमादिति वाच्यम् । एवं सत्ययं न पुरुष इत्यपायेऽपि अयं स्थाणुरेवेत्यपायाऽभावात्, न चोक्ताभावविशिष्टसाधारणधर्मवत्ताज्ञानमेव तदपायजनकमिति वाच्यम्,संशयहेतोः साधारणधर्मवत्ताज्ञानस्य तदानीमननुसरणादितिचेत्, न, एककोटिनियतधर्माभावज्ञानस्याप्यपरकोटिनिश्चायकत्वाद्, अथवोक्ताभावज्ञानानन्तरं पुरुषत्वाभावज्ञानात्तद्विशिष्टसाधारणधर्मवत्ताज्ञानादेवायं स्थाणुरेवेति निश्चयस्तत्र तावदालोचनरूपायाईहाया अनुभवसिद्धत्वादिति दिग। ननु व्यतिरेकधर्मगवेषणमीहेत्यस्य व्याप्यधर्मवत्ताज्ञानमपायोऽसावित्यर्थः, तच्चान्वयेन व्यतिरेकेणान्वयव्यतिरेकेण वास्तु,तज्जन्ययथाभूतार्थज्ञानं तुधारणा इत्युक्तौ को दोषो येन स्वमतव्यावर्णनमेव भ्राजमानं भवेत्, उच्यते, व्याप्य
For Private And Personal use only