________________
ShrMahavt Jain ArarthanaKendra
P
सविवरण श्रीज्ञाना
मतिनिरू. पणे ईहाया अपायाभेद: अपायधारणाविप्रतिपत्तिनिरासश्च॥
प्रकरणम्॥ ॥२९॥
निलयादित्याकारः, उपपत्तिव्यापारध सम्भवपर्यालोचनं यथा सूर्यास्तसमये महति तमिले स्थाणुरयं सम्भाव्यते नतु पुरुषः, | तस्यासम्भवादिति, न चाशुनश्वरज्ञाने कथमेतावत्पोलोचनमिति वाच्यं, इहाया बहुसामयिकत्वाद्, अत एव बहुकालममुमर्थमनुभवामीति प्रतीतिः सङ्गच्छते, एवञ्च हेतूपपत्योः परमार्थत एकरूपत्वाचसंशयविरोधितव्याप्यधर्मवत्ताज्ञानमेव तदीहेत्यायाति, तत्संशयविरोधिता च तदभावानवगाहित्वेन विवक्षितेति न व्याप्यव्याप्यवचापरामर्शप्रसूतव्याप्यवत्चानुमितेरपायरूपाया ईहात्वापत्तिः, तत्संशयनिवर्चकापायानुकूलपरामर्शत्वं चहालक्षणं, तेन न तोद्यतिव्याप्तिः,स्यादेतत् तदभावाप्रकारकत्वे सति तत्प्रकारक ज्ञानं निश्चयः, स एव चापायः, ईहापि संशयभिन्नत्वाचादृश्येवेतीहापाययोः को भेद ? इतिचेत्,न,इदमित्थमेवेत्यनुभवसाक्षिकविषयताविशेषवतोऽपायादतादृश्या ईहाया भिन्नत्वात् । तादृशविषयताभावः संशयत्वेन व्याप्त इतिचेत्,न,अवग्रहेण व्यभिचारात, स्पष्टज्ञानत्वविशिष्टः स तथेतिचेत्,न, तादृशव्याप्ती मानाभावाद्,अपि चामुमर्थ विचारयामि, अमुमर्थं च निश्चिनोमीति प्रतीतिभ्यामीहात्वापायत्वयोः स्फुटमेव स्वतन्त्रतया भानमिति दिग् ॥ ६॥ अपायधारणागतविप्रतिपत्तिनिरासाय परमतमुपदर्शयति
केचिदन्यविशेषस्या-5भावव्यवसितिं जगुः॥ अपायमिदमेवेति, निश्चयं धारणां पुनः ॥ ७ ॥६५॥
'ववसायंमि अवाओं' इत्यत्र विशेषेण एककोटिव्याप्यधर्माभावप्रकारेणावसायो ज्ञानमिति यथाश्रुतार्थभ्रान्ताः पुरुषत्वव्याप्यशिरःकण्डूयनादिधर्माभाववानयमित्यादिज्ञानमपायं, 'वरणं पुण धारणं विति' ति यथाश्रुतार्थभ्रान्ताश्च तदुत्तरोत्पन्न स्थाणुरेवाडयमित्यादिज्ञानं धारणां केचिदाहुः।। आह च-"केइ तयनाविसेसा-वणयणमित्तं अपायमिच्छति । सन्भूयत्थविसेसा-वधारणं धारण विति ॥१८५॥" [केचित्तदन्यविशेषापनयनमात्रमपायमिच्छन्ति ।। सद्भूतार्थविशेषावधारणं धारणां ब्रुवते ॥ ॥७॥ तद्दषयति
HODAEKAR
CAREECE5%
॥२९॥
L
For Private And Personal use only