SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Sh k odra GENERADEGRECOGIte स्थाणुर्वा पुरुषो वेत्यनिश्चयात्मकं संशयमेवेहां केचिदुपयन्ति, ते भ्रान्ताः,ज्ञानाधिकारेऽज्ञानरूपाया ईहाया उपन्यासायोगाद्,13 मतिनिकआह च-"ईहा संसयमेतं, केई न तयं तओ जमन्नाणं ।। मइनाणंसा चेहा, कहमन्नाणं तई जुत्तं ॥१८॥' [इंहा संशयमात्र केचिक |पणे ईहातत्स यदज्ञानम् । मतिज्ञानांशश्वेहा-कथमज्ञानं सा युक्तम्] संशयेहयो.लक्षण्यं न वीक्षामहे इति चेत्, सोऽयं पुरुषदोषो न तु वस्तु संशययोलेदोषस्तयोर्मेदस्यानुभविकत्वात्, तथाहि 'एकत्र विधिनिषेधोभयज्ञानं संशयः, 'हेतूपपत्तिव्यापारप्रवणं ज्ञानमीहा' इति लक्षणभेदा क्षणमेदतो दनयोर्भेदः,यदाह-"जमणेगत्थालवण-मपज्जुदासपरिकुंठियं चित्तं । सेय इव सव्वप्पयओ,तं संसयरूवमण्णाण।।१८३॥” [यदने भेदस्य व्यकार्थालम्बनमपयुदासपरिकुंठितं चित्तम्।। शेत इव सर्वात्मतस्तत्संशयरूपमज्ञानम्] "तंचिय सयस्थहेऊ-ववत्तिवावारतप्परममाहं ॥ वस्थापनम्।। भूआभूअविसेसा-याणच्चायाभिमुहमीहा।।१८४॥"[तदेव सदर्थहेतूपपतिव्यापारतत्परममोघम् ।। भूताभूतविशेषादानत्यागाभिमुखमीहा] अत्रानेकार्थालम्बनमित्यत्रालम्बनपदैनकालम्बनत्वविवक्षणाद्,अनेकार्थपदेन विरुद्धार्थत्वलाभाद्, “एकविशष्यकं विरुद्धधर्मप्रकारकं ज्ञानं संशय" इति लक्षणं, अपर्युदासपरिकुंठितमिति च स्वरूपाभिधानानुपलक्षणादविधिपरिकुंठितत्वमपि द्रष्टव्यं, 'सय' इत्यादि च, सं सर्वात्मना शेत इवेति संशय इति व्युत्पत्त्यर्थाभिधानं, अत्र विरुद्धनानाधर्मप्रकारकत्वं परस्परग्रहप्रतिबन्धकग्रहविषयतावच्छदकनानाधर्मप्रकारकत्वं विवक्षितं, तेन तदभावव्याप्तिपर्यवसायिनो विरोधस्य संशयेऽभानपिन क्षतिः, न वा इदं रजतमेतद्रूपबच्चेति ज्ञानस्य संशयत्वापतिः, यत्तु 'एकपर्मिकतत्चदभावोभयप्रकारकज्ञानमेव संशय' इति, तन्न, अयं स्थाणुः पुरुषो वेति भावाभावानात्मकविरुद्धधर्मद्यप्रकारकज्ञानस्यापि संशयत्वात् , तत्र चतुष्कोटिकसंशयस्यासिद्धत्वादिति दिग् ।। यच्च ज्ञानं स्वार्थहेतूपपत्तिव्यापारतत्परं तदीहा, भूताभूतेत्यादिकं च स्वरूपकथनं, तत्र हेतुव्यापारः स्थाणुरयं बल्ल्युपसर्पणकाकादि UCHERWEARINARS For Private And Personal use only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy