________________
Shri Mahavir Jain Aradhana Kendra
/www.ketatirth.org
श्रुतनिश्रितमन्यच्च तद्विधाऽवग्रहादिभिः ॥ औत्पत्तिक्यादिकै भेदै-रेकैकं स्याच्चतुर्विधम् ॥ २ ॥६०॥ तन्मतिज्ञानं द्विविधं श्रुतनिश्रितमश्रुतनिश्रितं च तत्स्वरूपं च प्रागुक्तं, तदपि प्रत्येकं चतुर्विधं श्रुतनिश्रितमवग्रहेहापायधारणालक्षणं,अश्रुतनिश्रितञ्चौत्पत्तिकी वैनयिकी - कार्मिकी- परिणामिकीलक्षणं चेति, यद्यप्यश्रुतनिश्रितेऽप्यवग्रहादिकमस्ति तथापि - 'असाधारणेन व्यपदेश' इति न्यायादित्थं विभागः प्रदर्शितः || २ || आदिपदेन संक्षिप्योपदर्शितं प्रभेदं प्रपञ्चयति
भिदाश्च ताश्चतस्रोऽव-ग्रहेहापायधारणाः ॥ औत्पत्तिकी वैनयिकी, कार्मिकी पारिणामिकी || ३ || ६१ ||
स्पष्टः ।। नवरं पारिणामिकीत्यस्यान्ते चेतीतिशेषः, अत्र च श्रुतनिश्रिताधिकारादवग्रहादिभेदानामेवाधिकारः । आह च निर्युक्तिकार :- "उग्गह - ईहवाओ य, धारणा एव होंति चत्तारि । आभिणिवोहिअनाणस्स, भेअवत्थू समासेणं ।। १७८||" [अवग्रह Feesपायश्च धारणैव भवन्ति चत्वारि ।। आभिनिबोधिकज्ञानस्य भेदवस्तूनि समासेन ], अत्र चकारोऽवग्रहादेः पर्यायत्वनिरासेन स्वातन्त्र्य प्रदर्शनार्थः, तत्प्रदर्शकत्वं चास्य भेदार्थत्वादवसेयं, अनुशास्यते च ' चार्थो भेद ' इति, एवकारथ अवगृहीतमेवेह्यते ई हितमेव निश्चीयते, निश्चितमेवावधार्यत इति क्रमद्योतनार्थः । भेदा एव वस्तूनि विविक्तवस्तुस्वरूपाणि भेदवस्तूनि, तेन भेदस्य पदार्थान्तरत्वनिरासः, समासेनेति विस्तरेणाधिकानामपि सम्भवादितिभावः ||३|| अवग्रहादीनां लक्षणमाह
अपग्रहोsवग्रहः स्यादीहा भेदगवेषणम् ॥ इदमेवेत्यपायो धी-र्धारणा तदविच्युतिः ॥ ४ ॥ ६२ ॥ अपकृष्टः सामान्य मात्रावभासी ग्रहोऽवग्रहो निष्प्रकारकं ज्ञानमित्यर्थः, भेदगवेषणं तद्व्याप्यान्वयव्यतिरेकधर्मसम्भवग्रहणमीहा, इदमित्थमेवेत्यवधारणमपायो, निश्चिताऽर्थाविच्युतिर्धारणा, अविच्युतिस्मृतिवासनारूपाणां तिसृणामपि धारणानां विच्युतिविरोधित्वा
For Private And Personal Use Only
Acharya Shal Kalasagarsun Gyanmandir
मतिभेदप्रभेदनिरूपण
तत्र अवग्र
हादीनां लक्षणम् ॥