________________
सविवरणं श्रीज्ञाना
प्रकरणम् ॥
RECAUSERSabdateHARANILODA
ग्रन्थान्तरं रत्नजिघृक्षयान्ये, जडास्तडागं परिशीलयन्ति ।
रत्नाकरं जैनवचोरहस्य, वयं तु भाष्यं परिशीलयामः ॥२॥ नमोऽस्तु भाष्यकाराय, भगवन्मतभानवे ॥ पराहतेषु तर्केषु, भाष्यजीवातुदायिने ॥३॥
॥ इति श्रीज्ञानार्णवे न्यायविशारदविरचिते मतिश्रुतभेदचिन्ताधिकारः प्रथमस्तरङ्गः सम्पूर्णः ।। अथ द्वितीयस्तरङ्गः ॥ अथावसरसङ्गत्या मतिज्ञाननिरूपणं प्रतिजानीते ।
भेदपर्यायसुव्यक्त-मथ तत्त्वनिरूपणात् ॥ निरूप्यते मतिज्ञान-मुद्देशक्रमसङ्गतम् ॥१॥ ५९॥ अथ' यथोद्देशं निर्देश' इति न्यायात् पूर्व मतिज्ञानमुद्दिष्टमिति तदेव पूर्व निर्दिश्यते, एवं चोद्देष्टुरिच्छयोद्देशक्रमः, उद्देशक्रमाच्च निर्देशक्रम इति लभ्यते उद्देश इव निर्देशेऽपीच्छैव नियामिकाऽसाम्प्रदायिकत्वेन बलवदनिष्टानुबन्धित्वज्ञानाच्च नोद्देशक्रमविपरीतक्रमेण निर्देशेच्छेति तु युक्तं, अत्राऽथेत्यनेन प्रतिबन्धकजिज्ञासापगमलक्षणाऽवसरसङ्गतियोंत्यते, तथा चासङ्गताभिधानशंका निवर्तिता भवति, प्रतिज्ञया च शिष्यावधानं कृतं भवति । तथाह च भाष्यकारोपि-"मइमुअनाणविसेसो, भणिओ तल्ल यखणाइभएणं ॥ पुचि आभिणिबोहिय-मुद्दिटं तं परूविस्स||१७६॥"[मतिश्रुतज्ञानविशेषो भणितस्तल्लक्षणादिभेदेन ।। पूर्वमाभिनिवोधिकमुद्दिष्टं तत्प्ररूपयिष्ये ॥१॥ तत्र निरूपणं तावत्तच्चभेदपर्यायः कर्तव्यं तत्र तस्य भावस्तत्वमिति निरुक्त्या तत्वं सामान्यलक्षणं तच पूर्व कृतमेवेति भेदनिरूपणमवसरप्राप्तं चिकीपुराह
प्रथमतरज
समाप्तिः द्वितीयतरझारम्भः,तत्र मतिज्ञान
तत्त्वनिरूपणप्रतिज्ञा ॥
Halesites: GARH
॥ २७॥