SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.ketafirth.org विजं तंमि पच्चओ होइ ॥ कत्ता वि हु तदभावे, तदभिप्पाओ कुणइ चिठ्ठे ॥ १७५ ॥ " [ सा वा शब्दार्थ एव तयापि यत्तस्मिन्प्रत्ययो भवति ।। कर्तापि खलु तदभावे तदभिप्रायः करोति चेष्टाम् ।। ] अत्र शब्दार्थ इति शब्दो वक्तुः समुदीरितवचनरूपस्तस्यार्थः शब्दार्थः श्रोतृगतज्ञाने प्रतिभासमानस्तदभिधेयवस्तुस्वरूपः श्रुतज्ञानमिति तात्पर्य, तथा च कारणे कार्योपचार आश्रयणीय इति हृदयम् ।। वस्तुतः शब्दस्यार्थः प्रयोजनमिति सम्मुख एवार्थः ॥ ननु मूकेतरभेदस्याऽवधारणगर्भोऽयमर्थः कुतो न स्याद्यत् श्रुतज्ञानं सुखरमेव मतिज्ञाने तु न नियम इति चेत्, न श्रुतज्ञानस्यापि सर्वस्यामुखरत्वादनन्तभागस्यैव निबन्धादि - योग्यतया मुखरत्वोक्तौ चाऽभिलाप्यानभिलाप्यविषयविभागादनतिरेकप्रसङ्गादितिदिग् । ननु तथापि खपरप्रत्यायकत्वाऽप्रत्यायकत्वाभ्यां मतिश्रुतहेतूनामेव विशेष उक्तो न तु मतिश्रुतयोः । न च श्रुतमपि शब्दप्रयोगद्वारा परप्रत्यायकमितिवाच्यम्, मतिज्ञानस्यापि तद्द्द्वारा तथात्वादितिचेत्,न, स्वकारणद्वारा परस्मै स्वसमर्पकत्वस्य विशेषकत्वात् । असार्वत्रिकमिदमभेदकमिति चेत्, न, तज्जातीयत्वस्य सार्वत्रिकस्य भेदकत्वात् ॥५७॥ उक्तो मूकेतरभेदान्मतिश्रुतयोर्भेदस्तत्प्रतिपादनेन च कृतं सर्वप्रकारैर्भेदनिरूपणमित्याह मिथेो मतिश्रुतभिदा, तदेवं सर्वहेतुभिः ॥ दिशा प्रदर्शिताऽकम्प-सम्प्रदायपवित्रया ॥ ५८ ॥ स्पष्टः || नवरं प्रदर्शितेति क्तप्रत्ययबलेन मतिश्रुतभेदस्य सिद्धत्वज्ञानेन प्रतिबन्धकजिज्ञासानिवृत्या मतिस्वरूपनिरूपणप्रयोजकजिज्ञासा शिष्याणां कृता भवति ।। ५८ ।। सविवरणे श्रीज्ञानार्णवप्रकरणे प्रथमस्तरङ्गः सम्पूर्णः ।। ये विबुधेषु जीतविजयप्राज्ञाः परामैयरु- स्तत्सातीर्थ्यभृतो नयादिविजयप्राज्ञाः श्रयन्ति श्रियम् ॥ तेषां न्यायविशारदेन शिशुना ज्ञानार्णवे निम्मिते, पूर्णे भाष्यवचोमृतैरतितरा-मायस्तरङ्गोऽभवत् ॥ १ ॥ For Private And Personal Use Only Acharya Shal Kalassagarsun Gyanmandir भूकेतरमेदासन्मति श्रुतमेदनिरूपणसमाप्तिसर्वप्रकारैर्मति श्रुतभेदनिरूपणोपसंहारः ॥
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy