________________
G
सविवरणं श्रीज्ञाना
र्णव
प्रकरणम् ।।
अत एव शब्दोदीरणासामर्थ्याभावे प्रतिपिपादयिषवस्तथा तथा चेष्टमाना दृश्यन्ते, न च चेष्टादिना व्याप्तिप्रतिसन्धानपुरस्सरमनुमितिरेब जन्यते, न तु शाब्दबोध इति वाच्यम् , एवं सति शब्दादप्यर्थप्रतीतिरनुमानेनैवेति गतं शब्दप्रमाणचर्चयैव ।। अथ शाब्दबोधे पदोपस्थित एवार्थों भासते नतूपस्थितमात्रं, अन्यथा घटपदात्सम्बन्धितयोपस्थितस्याकाशस्य शाब्दबोधप्रवेशप्रसङ्गात्तथा च चेष्टोपस्थितोऽर्थः कथं शाब्दबोधे निविशतामिति चेत्, न, सकैतग्रहाधीनोपस्थितिकस्यैव तत्प्रवेशनियमात, अथ चेष्टादिना शब्दानुमानादेव शाब्दबोधस्तस्यैव तद्धेतुत्वेन क्लुप्तत्वाद् , अन्यथा लिप्यक्षरादेरपि तद्धेतुत्वकल्पने गौरवादिति, तदिदमभिप्रेत्योक्तं "प्रयत्नजन्या शरीरतदवयवक्रिया चेष्टा सा च नाव्यशास्त्रादिसमयबलेन पुरुषाभिप्रायविशेष अर्थविशेषं च गमयन्ती नागमाद् भिद्यते लिप्यक्षरादर्थप्रतिपत्तिवदिति" इति चेत्, न, चेष्टायाः शरीरवृत्तित्वेन शब्दस्य चाऽऽकाशवृत्तित्वेन तत्र व्याप्तिग्रहासम्भवात्, चेष्टया तदभिप्रायस्थः शब्दः कल्प्यते, इत्यपि वार्तम् ।। आकाशं घटमानयेतिशब्दवदित्यनुमित्याद्याकलितशब्दस्येव तस्य स्वतन्त्रानुपस्थितत्वेन शाब्दबोधाहेतुत्वात, किञ्चैतादृशव्याप्तिप्रतिसन्धान विनापि चेष्टादेराहत्यार्थप्रतीतिदर्शनात्तस्याः स्वतन्त्रतयैव हेतुत्वं युक्तम्, अथ चेष्टाजन्यज्ञानस्य शाब्दत्वे शब्दात्प्रत्येमीति तत्र प्रतीतिः स्यान्न तु संज्ञया प्रत्येमीति चेत्, न, तस्य ज्ञानस्य शाब्दत्वेऽपि शब्दाजन्यत्वात्, तादृशप्रतीतौ शब्दजन्यत्वस्य नियामकत्वात्, अत एव चेष्टायां लक्षणाभावेऽपि व्यजनयैव बोधकत्वमित्यालङ्कारिकाः॥ तदिदमखिलं चेतसि निधाय बभाषे भगवान् भाष्यकार:“दव्वसुअमसाहारण-कारणओ परविबोहयं हुजा ।। रूढं ति व दव्वसुर्य, सुअंति रूढा ण दब्बमई ॥ १७४ ॥" [द्रव्यश्रुतमसाधारणकारणतः परविबोधकं भवेत् ॥ रूढमिति वा द्रव्यश्रुतं श्रुतमिति रूढा न द्रव्यमतिः ॥] " सा वा सद्दत्थो चिय, तया |
मूकेतरमेदान्मतिश्रुतभेदनिरूपणे चेष्टाया: शाब्द
जनकत्वं व्यवस्थापितम्।
HASHARABAD
॥२६॥