________________
Sha
n
dra
LAKHAIRECENGERSEASOKARACHAR
तचिन्त्यम्, यतः श्रुतज्ञानं हि न स्वतः परप्रत्यायकं किं तु श्रुतज्ञानकारणे शब्दे तदुपचारं कृत्वा तस्य परप्रत्यायकत्वमभिधीयत इति परत एव तत्तथा, एवं च करवक्त्रसंयोगादिका अपि चेष्टा अनक्षररूपत्वेन मतिहेतुतां भजन्त्यः परस्मिन् भुजिक्रियादिप्रतीतिं जनयन्ति, इति मतेरपि परतः परप्रत्यायकत्वमविशिष्टम् । आह च-"सपरपञ्चायणओ, भेओ मूएतराण वाभिहिओ ।। जं मूअं मइनाणं, सपरप्पञ्चायगं मुत्त।।१७१।।" [स्वपरप्रत्यायनतो भेदो मूकेतरयोरिवाभिहितः।। यद् मूकं मतिज्ञानं, स्वपरप्रत्यायक श्रुतम् ] "मुअकारणंति सद्दो, सुअमिह सो य परबोहणं कुणइ ।। मइहेअवो वि हि परं, बोहिंति कराइचेट्ठाओ ॥ १७२ ॥" [श्रुतकारणमिति शब्दः, श्रुतमिह स च परबोधनं करोति ।। मतिहेतवोऽपि हि परं बोधयन्ति करादि चेष्टाः] “न परप्पबोहयाई, |जं दोवि सरूवओ मइसुआई ॥ तक्कारणाई दोह वि, बोहिंति तओ ण भेओ सिं ॥ १७३ ॥" [न परप्रबोधके यद् द्वे अपि स्वरूपतो मतिश्रुते ॥ तत्कारणानि द्वयोरपि बोधयन्ति ततो न भेदोऽनयोः ॥] ॥ ५६ ।। वस्तुस्थितिमुपदर्शयतिपरप्रत्यायने शब्दो, ह्यसाधारणकारणम् ॥ चेष्टापि शाब्दहेतुळ (त्वात् ), तदियं युज्यते गतिः॥५७ ॥
यद्यपि द्रव्यश्रुतं श्रुतज्ञानं जनयितुमान्तरिकान्मतिविवर्तानवग्रहेहादीन् जनयति तथाप्यक्षररूपतया मुख्यत्वात् श्रुतज्ञानस्यैव तदसाधारणं कारण, करादिचेष्टास्तु न मतिज्ञानस्यैवासाधारणं कारणं, 'भोक्तुमिच्छत्ययम्' इत्यादिश्रुतानुसारिविकल्पस्यापि जनकत्वात्, अथवाऽऽचारादिपुस्तकाक्षरस्य गुरुजनोदीरितशब्दस्य वा श्रुतस्य यथा मोक्षं प्रत्यसाधारणकारणानां क्षायिकज्ञानदर्शनचारित्राणां कारणत्वं न तथा परप्रत्यायिकानां चेष्टादीनामिति विशेषः ॥ वस्तुतः शब्दस्येव चेष्टादीनामप्यर्थविशेषेण सह सम्बन्धग्रहात्पदार्थोपस्थितिद्वारा शाब्दप्रतीतिजनकत्वमेव, न तु मतिज्ञानजनकत्वं,
मुकेतरभेदान्मतिश्रुतभेदनिरूपणेऽन्याभिप्रेतमपाकत्य स्वाभी
टस्योपदर्शनम् ॥
For Private And Personal use only