________________
Shri Mahavir Jain Aradhana Kendra
सविवरणं श्रीज्ञाना
र्णत्रप्रकरणम् ॥
॥ २० ॥
www.khatirth.org
भाषते यद् नोपलब्धिसमं] “अभिलप्पाणभिलप्पा, उवलद्वा तस्समं च नो भणइ ।। तो होउ उभयरूवं, उभयसहावंति काऊण ।। १५२ ।। " [ अभिलाप्यानभिलाप्या, उपलब्धास्तत्समं च नो भणति । ततो भवतूभयरूपं, उभयस्वभावमिति कृत्वा ।। ] "जं भासह तं पि जओ, ण सुआदेसेण किं तु समईए || ण सुओवला द्वैतुल्लंति, वा जओ णोवलासमं ॥ १५३ ॥” [यद्भाषते तदपि यतो न श्रुतादेशेन किन्तु स्वमत्या || न श्रुतोपलब्धितुल्यमिति वा यतो नोपलब्धिसमं ॥ ] ॥ ३९ ॥ मतिज्ञाने न शब्दपरिणामरूपश्रुतसाधर्म्येण श्रुताशङ्कयेतरत्रेत्याद्यभिधानं श्रुतत्वाभावव्याप्य श्रुतोपयोगासाहित्यनिर्णये तदनुत्थानात्, किन्तु शब्दपरिणामरूपसाधारणधर्मदर्शनात्तदाशङ्कयेत्यतोऽपरथा व्याचष्टे
तदा श्रुतोपयोगः स्याच्छ्रुतविज्ञप्तिहेतुभिः ॥ प्रयोगः स्याद् यदा (घ) पंतु, नाक्षराय (रस्या) नुसारतः॥ ४० ॥ सम्भवेन फलतो वा प्रयोगकाले मतिज्ञानस्य श्रुतोपयोगस्तदा स्याद् यदि श्रुतधीहेतुसन्निधानं स्यात्, तदेव चात्र नास्ति, अभिलाप्येऽनभिलाप्ये वा मतिविषयेऽक्षरानुसाररूपसहकारिविरहात्, नहि सह कारिसन्निधानानुद्बुद्धश्रुतलब्ध्या श्रुतोपयोगः स्यादिति तद्विरहेणैव तत्र तद्नापत्तिरिति भावः एवञ्च इयरत्थत्रीत्यादौ श्रुतपदं श्रुतोपयोगपरं, उपलब्धिसममिति च श्रुतोपलब्धिसमहेतुकमित्यर्थकं क्रियाविशेषणं, भणेदित्यत्र मतिज्ञानोपयुक्त इतिशेषः॥ ४० ॥ नन्वत्र भाष्यकारव्याख्याने श्रुतोपयुक्तस्य भाषासम्भवः श्रुतमित्येतावदेवास्तु, विषयग्रहणं पुनरनतिप्रयोजनमितिचेत्, न, वि षयभेदेन तद्भेदोपदर्शनार्थं तद्ग्रहणादित्याशयेनाह - भेदो विषयभेदेन, हेतुभेदोपजीवि वा ॥ नूनं मतिश्रुते भेत्तुं दर्शितो व्याख्ययाऽनया ॥ ४१ ॥ स्पष्टः || ४१ ॥ अथ विषयता भेदात्तद्भेदप्रतिपादनार्थमियमपरथा व्याख्यायते—
For Private And Personal Use Only
Acharya Shal Kalassagarsun Gyanmandir
इन्द्रियविभागान्मतिश्रुतभेदाभिधा
ने साक्ष्योड़
ताया: पूर्व
गतगाथाया
भाष्यानुसारिविवर
णम् ॥
॥ २० ॥