SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ BADDRESPECTOR श्रुतमेव श्रुतं ज्ञेयं, भाषासम्भवशालि वा ।। इतरत्र तदापत्ति-भिन्नाऽनुभववदूगिरा ।। ४२ ।। श्रुतोपयुक्तः सन् श्रुतसहितं यथा स्यात्तथा श्रुतसहितान् वा बुद्धिदृष्टान् यानर्थान् सम्भवतो भाषतेऽन्तर्जल्पविकल्पे ज्ञेयाकारतया परिणामयति तथापरिणामापनास्ते तस्य श्रुतमेव, नहि श्रुतविषयता न श्रुतमिति, नन्वेवमभिलाप्यविषयकं मतिज्ञानमपि श्रुतज्ञानसमानाकारमिति तत्रापि कथं न श्रुतत्वं, उच्यते, मतिश्रुत्योः स्फुटमेव विषयतावैलक्षण्यानुभवेन समानाकारताया एवासिद्धेः, न च विषयाभेदे कथं विषयताभेद इति वाच्यम्, ज्ञानस्वरूपाया विषयतायास्तदभेदेऽपि ज्ञानसामग्रीभेदेन भेदात्, अनुभवेन न तभेदोऽनुभूयत इति चेत्, न, कालविशेषाद्यवभासभेदस्य प्रत्यक्षसिद्धत्वात्, तथा चात्र बुद्धिपदं बुद्धिसामान्यार्थक, श्रुतपदं च श्रुतोपयोगार्थक, भाषत इति च भाषणयोग्यतावानित्यर्थक, अध्याहियमाण एवकारश्च श्रुतमित्यनन्तरं योज्यः । तत्पदश्च नार्थमात्रपरामर्शकं ते श्रुतमेवेत्यस्य बाधात्, किन्तु भाषासङ्कल्पविषयत्वविशिष्टार्थपरामर्शकं, इतरत्रेति च मतिज्ञानकाल इत्यर्थक, श्रुतपदं च भावश्रुतार्थकं, उपलान्धसममिति च समानानुव्यवसायत्वार्थकं साम्यं च सावधिकमिति सन्निधिसिद्धतया मतिज्ञानमेवावधित्वेनोपतिष्ठते, भणदित्युत्तरं च श्रुतमित्यनुषज्यत इति मविज्ञानकाले श्रुतज्ञानं भवेद्, यदि मतिज्ञानसमानानु व्यवसायकं श्रुतं कश्चिदपि भणेदित्युत्तरार्द्धार्थः, एवं च विषयतावैलक्षण्येन कारणभेदानुमानात्तत्र कारणाभावनिश्चयेन कार्योलत्पत्तिशंकोच्छेद इतिभावः, अथवा श्रुतमिति भावप्रधाननिर्देशाश्रयणादितरत्र मतिज्ञाने श्रुतत्वं तदा स्यादित्याद्यर्थो बोध्यः ॥४२॥ हेतुविषयभेदोनयनानुकूलेन प्रकारान्तरेण व्याचष्टेअयवा बुद्धिदष्टेऽर्थे, श्रुतं मत्यै(सत्ये)व भासते ॥ इतरत्राप्ययं न्यायो, द्वयोः साम्ये परं भवेत् ॥४३॥ इन्द्रियविमागान्मतिनुतभेदाभिषाने साक्ष्योडतायाः पू| वंगतगाथाया भाष्यानु| सारिविवर णम् ॥ BREARRRRE RERes For Private And Oy
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy