________________
Shri Mahavir Jain Aradhana Kendra
www.khatirth.org
“ इयरत्थ वि होज्ज सुअं उबलद्धिसमं जइ भणिज्जा ॥ १२८ ॥" इत्यस्यायमर्थः, इतरत्र भावश्रुते, भवेद्रव्यश्रुतमुभयश्रुतं वा यद्युपलब्धिसमं भणेत् प्राकृतशैल्या सहस्य समभावनिपातनात्समशब्दस्य तुल्यार्थकत्वात्समकालार्थकत्वाद्वोपलब्ध्या सहोपलब्धि तुल्यमुपलब्धिसमकालं वा भणेद्, अत्राद्यन्तयोः सहभावयौगपद्ययोः सामान्येन ग्रहणादीप्सितार्थसिद्धि:, तदिदमाह-" इयरत्थत्रि भावसुए, होज्ज तयं तस्समं जइ भणिज्जा ॥ ण य तरह तत्तियं सो, जमणेगगुणं तयं ततो ॥१३०॥ [इतरत्रापि भावश्रुते, भवेत्तत्तत्समं यदि भणेत् ॥ न च तरति तावत्सः यदनेकगुणं तत्ततः ] “ सह उबलब्धीए वा, उवलब्धिसमं तया व जं तुलं ॥ जं तस्समकालं वा, ण सव्वहा तरह वोतुं जे ॥ १३१ ॥ " [ सहोपलब्ध्या वोपलब्धिसमंता | यत्तुल्यम् ॥ यत्तत्समकालं वा न सर्वथा तरति वक्तुम्] एवञ्च द्रव्यश्रुतादुभयश्रुताच्चानन्तगुणं भावक्षुतं प्राप्तमिति सम्प्रदायः ॥ व्यक्तीभविष्यति चेदमुपरिष्टात्, भावश्रुते द्रव्यश्रुतमप्रसक्तमिति सूत्रे श्रुतपदं प्रागुक्तश्रुतपदसमानार्थकमुभयश्रुतपरमेव, न चैवं तच्छब्देन तस्य परामर्शो युज्येत, सूत्रकृतांगतेर्विचित्रत्वात्, न चैकविशेष विशेषान्तरमापादनार्हमिति, इतरत्रेत्यस्य | केवलभावश्रुतोत्पत्तिकाल इत्यर्थः । एवश्च तदा भावश्रुतसामग्रीसत्त्वेऽपि द्रव्यश्रुतसामग्र्यभावादुभयश्रुताभावो न ह्युभयमतिरिक्तमस्ति, प्रत्येकातिरिक्तसमुदायाभावादित्येतत्तात्पर्यम् ||२८|| अथाऽत्र केषाञ्चिन्मतिश्रुतभेदोपयिकं पूर्वार्द्धव्याख्याकौशलमपहस्तयितुमुद्भावयति
त्या सह तया दृष्टान् ब्रुवतो ह्युभयश्रुतम् ॥ द्रव्यतोऽनुपयुक्तस्य, तदेकालोचनं मतिः ।। २९ ।। 'बुद्धिद्दिट्ठे ' इत्यत्र बुद्धया मत्या दृष्टेष्वर्थेषु मध्ये अत्र ' वर्णेषु क्षत्रियः शूर' इत्यत्रेव मध्यार्थे सप्तमी, एकवचनं बहु
For Private And Personal Use Only
Acharya Shel Kailassagarsun Gyanmandir
इन्द्रियविभामान्मतिश्रुत
भेदाभिघाने
उक्त पूर्वगत...
| गाथोत्तरार्द्ध
स्य भाष्यानुसारिविव
रणम् ॥