________________
Shri Mahavir Jain Aradhana Kendra
सविवरणं श्रीज्ञाना
र्णव
अकरणम् ॥ 31 १५ ।।
www.ketatirth.org
बुद्धा बुद्धिगतानर्थान् वदतो शुभयश्रुतम् ॥ द्रव्यतोऽनुपयुक्तस्य, भावतो जानतः परम् ॥ २७ ॥ बुद्धया दृष्टानर्थान् मतिसहितान् यान् भाषते तद्द्रव्यभावलक्षणम्भयश्रुतम् अत्र बुद्धिशब्दो मतिशब्दश्च श्रुततात्पर्यकः, निरूपणप्रयोजकविवक्षारूपज्ञानस्य प्रयोगसमकालीनोपयोगस्य च मतिरूपस्यासम्भवात् उभयत्वं चात्र प्रयोगोपयोगाभ्यां बोध्यम्, न तु विवक्षया, तया सबै कविशिष्टापरत्वरूपो भयत्वासम्भवात्, अनुपयुक्तस्यैव वदतो द्रव्यश्रुतम्, अथानुपयुक्तस्यैव प्रयोगो भवति नोपयुक्तस्य, प्रयोगकाल एव तदधीनार्थोपयोगस्यासम्भवात्, तथा च कथमयं विभाग इति चेत्, न, सोपयोगप्रयोगाभिधित्सया केवलप्रयोगाभिधित्सया च प्रयोगद्वैविध्यसम्भवाद्वर्णार्थादिषुच्छिन्नज्वालादृष्टान्तेनैव वोपयोग इति व्यक्तमध्यात्ममतपरीक्षायाम्, तदिदमभिप्रेत्याह- "जे सुअबुद्धिदिडे सुअमइसहिओ पभासई भावे ।। तं उभयसुअं भण्णइ, दव्वसुअं जेउ अणुवउत्तो ।। १२९ ।।” [ यान् श्रुतबुद्धिदृष्टान, श्रुतमतिसहितः प्रभाषते भावान्। तदुभयश्रुतं भण्यते, द्रव्यश्रुतं यांस्त्वनुपयुक्तः ] अत्राभाषमाणस्यैव श्रुतबुद्धया पर्यालोचयतस्तु भावश्रुतमेवेति सामर्थ्यगयं, सामर्थ्यं च न तत् भावश्रुतमेवेति साध्ये द्रव्योभय श्रुतभिन्नत्वे सति श्रुतत्वम्, एवकारेण साध्यार्थस्यापि तादृशस्य पर्यवसाने हेतुसाध्याभेदप्रसङ्गात्, किन्तु प्रयोगाकालीन श्रुतत्वमेवेति बोध्यम् || सूत्रे तु श्रुतपदस्योभय श्रुतपरतयाऽनुपयुक्तस्य वदतो द्रव्यश्रुतमेवेत्यपि सामर्थ्यगम्यमेव, एवश्च द्रव्यभूतं भावश्रुतमुभयश्रुतं वा किं कथञ्च भवेदित्याकांक्षाः पूरिताः ॥ २७॥ अथ द्रव्यश्रुतमुभयश्रुतं वा भावश्रुतस्य कियानंश इत्याकांक्षापूरणौपयिकमुत्तरार्धं व्याख्यायते तात्पर्यतः
केवलश्रुतकालेऽपि, तदाऽऽत्मन्युभयश्रुतम् । भवेद्यद्युपलब्धार्थान् सर्वान् वक्तुं क्षमेत सः ॥ २८ ॥
For Private And Personal Use Only
*202
Acharya Shui Kalassagarsun Gyanmandir
इन्द्रियविभा गान्मतिश्रुतभेदाभिषा
ने 'बुडिदिट्ठे
अत्थे'
इति पूर्वगत
गाथाया
भाष्यानुसा रिपूर्वार्ध विव
रणम् ॥
।। १५ ।।