SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shindra Acharya ShalkalasssagarmanGyanmantire भव सविकरणं नच स्यात्पदविनिर्मोकात्तस्याज्ञानत्वं नाम, सम्यग्दृशामपि स्यात्पदविनिर्मोकण क्वचिदज्ञानदर्शनात्संसर्गतया स्यात्पदार्थविषय | मिथ्यादृष्टिश्रीज्ञानातायास्त्वन्यत्राऽप्यनिवारणीयत्वात्,सम्यग्दर्शनस्यैव तादृशंसंसर्गकज्ञानहेतुत्वम् ,इति चेत्,न, तथापि सम्यग्दृष्टिसम्बन्धिनोऽसंसर्ग ज्ञाने व्यवकस्यावग्रहस्याज्ञानत्वप्रसङ्गात्, किञ्च संवादिप्रवृत्तिजनकतावच्छेदकं तद्वति तत्प्रकारकत्वलक्षण प्रामाण्यं मिथ्यादृशां ज्ञानेऽतिव्याप्तं, हारौपयिक प्रकरणम् ॥ अव्याप्तं च सम्यग्दृष्टिसम्बन्धिसंशयादौ, इति चदे, उच्यते ज्ञानत्वं निज्ञानं तदपि संवादि-प्रवृत्तिजनक यतः ॥ अज्ञानं बन्धहेतुत्वा-न्मोक्षाऽहेतुतयाऽथवा ॥१५॥ ॥११॥ श्चयतोऽज्ञाव्यवहारौपयिकं हि ज्ञानत्वं मिथ्यादृशां ज्ञानेऽस्त्येव, तथापि निश्चयतो बन्धहेतुतावच्छेदकमज्ञानत्वमपि तत्राऽस्तीति ज्ञान नत्वम् , परमपि तदज्ञानमित्येव निश्चीयते, ननु ज्ञानेऽज्ञानत्वकल्पने मानाभावो मिथ्यादर्शनविशिष्टज्ञानत्वेनैव विशिष्टबन्धहेतुत्वसम्भवात्, प्रश्नपतिइति चेत्, न, मिथ्यादर्शनविशिष्टज्ञानत्वेन ज्ञानविशिष्टीमथ्यादर्शनत्वेन वा हेतुतेत्यत्र विनिगमकाभावाद्, मिथ्यादर्शनज्ञानत्वयोः, विधानञ्च ॥ सम्बन्धभेदेन व्यासज्यवृत्त्यवच्छेदकताऽसम्भवात, अन्यथा दण्डविशिष्टचक्रत्वादिनाऽपि हेतुत्वप्रसङ्गात, न च ज्ञानत्वाज्ञान-IG त्वयोरसमावेशो पृथग्धयोस्तयोः समावेशाज्जातिसाङ्कयेस्यापि क्वचिददोषत्वाद्,ननु मिथ्यादर्शनाविरतिकपाययोगानामेव तत्तरन्धहेतुत्वोपदेशात्सामान्यतो बन्धविशेषे मिथ्यादर्शनत्वेन मिथ्यादर्शनजन्यतावच्छेदकजातिव्याप्यजात्यवच्छिन्नं प्रति चमिथ्याद र्शनविशेषत्वेनैव हेतुता प्रामाणिकी 'यत्सामान्ययोः' इति न्यायात्, ज्ञानं तु तत्सहभूततया तत्राऽन्यथासिद्धमेवेति न तस्याज्ञानत्वेन PI तद्धतुतेति चेत्, न, मिथ्यादर्शनद्वाराऽज्ञानस्य हेतुत्वे द्वयोर्हेतुत्वसमर्थनात्, अथवा मिथ्यादृष्टिज्ञाने सम्यक्प्रवृत्त्यादिद्वारा मोक्षहेतु१४|| तावच्छेदकज्ञानत्वाभाव एवाज्ञानत्वं, न चोक्तज्ञानत्वव्याप्यत्वमस्यास्त्विति वाच्यम्,सम्यग्दृष्टिसंशयादौ व्यभिचारात,न चैकवि FORESOLUKHRELES ११ For Private And Personal use only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy