SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Sha n dra H PROCESCRECRUCLAGHRELCC वेत्यवधारणे तत्राऽसतामपि पटत्वादीनामध्यवसायः, अन्यथा सर्वथापदत्यागप्रसङ्गाद् , एवं विपर्यस्तत्वादेव भवकारण तत, भवहेतुषु हिंसादिषु मोक्षहेतुत्वाध्यवसायात, मोक्षहेतुषु वाहिंसादिषु भवहेतुत्वाध्यवसायाद्, यादृच्छिकोपलम्भरूपं च तद्, विरतिलक्षणं फलं विना फलशून्यं च, इत्येतहेतुभिरज्ञानमेवेदम् ॥आह च-"सदसदविसेसणाओ, भवहेउजदिच्छिओवलंभाओ॥ नाणफलाभावाओ, मिच्छद्दिहिस्स अन्नाणं ॥ ११५ ॥" [सदसदविशेषणाद् भवहेतुत्वाद्यदृच्छोपलंभात् । ज्ञानफलाभावाद् मिथ्यादृष्टरज्ञानम् ।।] चि ॥ १३ ॥ ननु घट एवायं घटोऽस्त्येवेत्येवमेवाध्यवसायः परेषामपि नतु सर्वथेत्याकारस्तत्र च विशेषणक्रियासमतेवकाराभ्यामन्ययोगव्यवच्छेदात्यन्तायोगव्यवच्छेदयोरेव लाभात्क सदसदविशेष इति चेद् , उच्यते । सर्वथाऽनुपरागेण, घटधीर्ज्ञानमेव नः ।। कथञ्चित्परसत्ताया, आपत्तौ चेन्न तद्ग्रहः॥ १४ ॥ यदि हि घटे कथञ्चिदन्ययोगव्यवच्छेदः कथञ्चिदेव चास्तित्वात्यन्तायोगव्यवच्छेदोऽध्यवसीयते तदा ज्ञानमेव तत्, अन्यथा त्वज्ञानमेव, नहि घटभिने पटादौ प्रमेयत्वादिनापि योगो घटे व्यवच्छिद्यते, न वा पटास्तित्वादेरपि घटेऽत्यन्तायोगव्यवच्छेद इति । अथ घटे घटभिननिष्ठभेदप्रतियोगितावच्छेदकधर्मवचमन्ययोगव्यवच्छेदः, अस्तित्वे च घटनिष्ठात्यन्ताभावाप्रतियोगत्वमत्यन्तायोगव्यवच्छेदः सर्वथास्त्येव, नहि तादृशप्रतियोगितानवच्छेदकधर्मवत्वं तदभावः, येन सर्वथात्वव्याघात:, किन्तु तादृशधर्मवत्वाभावः। न च तादृशधर्मवति तादृशधर्माभावो विरोधादप्रतीतेश्च,नच सर्वेः प्रकारैरिति सर्वथार्थः, किन्तु तदभावानधिकरणत्वे सतीति चेत्,न, प्रतियोगिमत्यपि पररूपेण तदभावात, विशेषग्रहे च कथञ्चित्पक्षप्रसङ्गाद्, अधकः स्याद्वादरहस्ये विस्तर: ॥१४॥ ननु तत्रापि कथमेतदज्ञानम्, कथश्चित्पक्षग्रहात किञ्चवमप्यवधारणविनिर्मुक्तं निर्विकल्पकादिकं कथं मिथ्याशां न ज्ञान, ARSHACHI मिथ्यादृष्टेमतिश्रुतयोरज्ञानत्वे हेतवो निरूपिता:वथाऽनुपरागे ज्ञानत्वमन्यथा त्वज्ञानत्व मिति दर्शितम् ॥ For Private And Personal use only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy