________________
Shri Mahavir Jain Aradhana Kendra
सविवरणं
श्रीज्ञाना
र्णव
प्रकरणम् ।। ॥ १० ॥
www.khatirth.org
तं श्रुताज्ञानम् ] अतोऽत्राप्येनमर्थं भाष्यसम्प्रदायमनुरुन्धानोऽनुविवदिषुराह
मतिश्रुते निर्विशेषे, ज्ञानाज्ञाने विशेषिते || सम्यग्दृशां हि ते ज्ञाने, अज्ञाने कुदृशां पुनः ॥ १२ ॥ सम्यग्दृष्टिमिथ्यादृष्टिभावेनाऽविशेषिता मतिरेवोच्यते न तु मतिज्ञानं मत्यज्ञानं वा, सामान्यपदेन विशेषानभिधानात् विशेषाऽभाने सामान्यस्याप्यभानापत्तिः, इति चेत्, न, तथापि सामान्यरूपेण विशेषभानेऽपि विशेषरूपेण तदभानाद्, एवं चाविशेषिता मतिरित्यस्य विशेषबोधकसमभिव्याहारविनिर्मुक्तमतिपदजन्यबोधविषयो मतिरित्यर्थः, न च मतिज्ञानमत्यज्ञानयोरपि वस्तु|तस्तादृशबोधविषयत्वात्, अविशेषितमतिव्यवहारापत्तिरित्याशङ्क्यम्, मतिज्ञानमविशेषिता मतिरिति व्यवहारो मतिज्ञानत्वावच्छेदेनातादृशबोधविषयत्वमवगाहते तस्यासम्भवादिति तत्त्वम्, एवं सम्यग्दृष्टित्वविशेषिता मतिर्मतिज्ञानम्, मिध्यादृष्टित्वविशेषिता च मत्यज्ञानं, एवं श्रुतेऽपि ज्ञेयम् ।। आह च - "अविसेसिया महच्चिय, सम्मद्दिट्टिस्स सा महन्नाणं ।। मइअन्नाणं मिच्छा-दिट्ठिस्स सुअं पि एमेव ॥ ११४ ॥”[अविशेषिता मतिरेव सम्यग्दृष्टेः सा मतिज्ञानम् || मत्यज्ञानं मिथ्यादृष्टेः श्रुतमप्येवमेव ||] अत्र मतिज्ञानमत्यज्ञानयोर्मतिरिति सामान्यसंज्ञा, मतिज्ञानं मत्यज्ञानश्चेति विशेषसंज्ञा द्रष्टव्या ॥ १२ ॥ ननु यथैव मतिश्रुताभ्यां सम्यगुष्टिर्घटादिकं जानीते व्यवहरति च तथा मिथ्यादृष्टिरपीति कथमेकस्य ज्ञानमपरस्य चाज्ञानमिति व्यवस्थेत्यत्राह -
अविशेषात्सदसतो -भवहेतुतया तथा ॥ यादृच्छिकतयाऽज्ञानं, मिथ्यादृष्टेः फलं विना ॥ १३ ॥ मिथ्यादृष्टिज्ञानं हि सदसतोर्विशेषं न प्रतिपद्यते, सर्वथा घट एवायामित्यवधारणे पटगतानामपि प्रमेयत्वादीनामतथात्वेनाध्यवसायात्, अन्यथा पटगतधर्मद्वारा पटरूपताया अपि तत्र सम्भवे 'सर्वथा घट एवं' इत्यवधारणानुपपत्तेः, एवं सर्वप्रकारैर्घटेोऽस्त्ये
For Private And Personal Use Only
Acharya Shui Kalassagarsun Gyanmandir
अविशेषितमतिश्रुत
योमंतिश्रुत
त्वे विशेषि
तयोश्व तयोः सम्यग्दृष्टेर्म
तिश्रुतज्ञानवे मि थ्यादृष्टेर्मत्यज्ञानश्रुताज्ञानत्वे च ॥
॥ १० ॥