________________
Shri Mahavir Jain Aradhana Kendra
४% रा
www.kotuatirth.org
'सुणेइति सु' इत्यत्र व्युत्पस्यर्थगृहीते शब्दे मतिजन्यत्वतात्पर्यानुपपच्या तदाश्रयणस्य वक्तुमयुक्तत्वाद्, भेदचिन्ताया अप्रस्तुतत्वेन तत्र तज्जन्यत्वतात्पर्यानाकलनात्, स्यादेतत् मत्यादीयमानस्य श्रुतस्य शब्दद्वारैव मतिजन्यत्वात्तत्र तत्पूर्वत्वं प्रतिपाद्यमानं श्रुत एव पर्यवस्यतीति, मैवम्, एतादृशमतिपूर्वत्वस्य सर्वत्रासम्भवात् एतेन द्रव्यश्रुते मतिपूर्वत्वप्रतिपादनस्य भावश्रुतभेदचिन्तौ - पयिकतया नार्थान्तरत्वमित्युक्तावपि न क्षतिः, नन्वेवमत्र द्रव्यश्रुते व्युत्पत्त्यर्थानुसरणमप्ययुक्तम नौपयिकत्वात्, इति चेत्, न, भावश्रुतलक्षणत्वेन तस्योपादेयत्वाद् । आह च - "भावसुअं महपुवं, दव्वसूअं लक्खणं तस्स ॥ ११२ ॥ [भावश्रुतं मतिपूर्व, द्रव्यश्रुतं लक्षणं तस्य] अत्र लक्ष्य गम्यतेऽनेनेति लक्षणं लिङ्गमित्यर्थ इत्याहुः, वस्तुतो लक्षणं लक्षणघटकमित्यर्थोऽपि प्रागुक्तरीत्याऽनुसरणीयः, एवञ्च कार्यभूतेन लक्षणघटकेन वा शब्देन स्वकारणीभूतस्य स्वघटितलक्षणलक्ष्यस्य वा विवक्षारूपस्य भावश्रुतस्यैव लक्षणात्, तत्र मतित्वप्रतिपादनं परेषां विपरीतमिति ध्येयम् ।। आह च- "सुअविश्राणप्पभवं, दव्वसुअमियं जओ विचिन्तेउं ॥ पुचि पच्छा भासह, लक्खिज्जह तेण भावसु ॥ ११३ ॥ |” [ श्रुतविज्ञानप्रभवं द्रव्यश्रुतमिदं यतो 'विचिन्त्य ॥ पूर्वं पश्चाद् भाषते, लक्ष्यते तेन भावश्रुतम् ।। ] || ११ || अथ नन्द्यध्ययने मतिश्रुतयोः कार्यकारणभावेन भेदप्रतिपादनानन्तरं स्वस्थाने सम्यक्त्वमिध्यात्वपरिग्रहासयोर्भेदप्रतिपादनायेदं सूत्रमस्ति, तद्यथा ॥ “अविसेसिआ मई मइनाणं मइअन्नाणं च विसेसिआ मई सम्मद्दिस्सि मई मइनाणं, मिच्छादिस्सि मई मइअन्नाणं || अविसेसिअं मुअं सुअनाणं सुअअन्नाणं च विसेसिअं सुयं सम्मद्दिहिस्स सुअं सुअनाणं, मिच्छदिस्सि सुअं सुअअन्नाणंति” [ अविशेषिता मतिर्मतिज्ञानं च मत्यज्ञानं च ॥ विशेषिता मतिः सम्यग्दृष्टेर्मतिर्मतिज्ञानं, मिथ्यादृष्टेर्मतिर्मत्यज्ञानं ॥ एवं अविशेषितं श्रुतं श्रुतज्ञानं श्रुताज्ञानं च विशेषितं श्रुतं सम्यग्दृष्टेः श्रुतं श्रुतज्ञानं, मिध्यादृष्टेः
For Private And Personal Use Only
Acharya Shel Kailassagarsun Gyanmandir
व्याख्या
न्तरे श्रुतपदस्य द्रव्य
श्रुते लक्षणा
बीजाभावः
व्युत्पत्त्यर्थ
अनुसरणौपदिमिकफले भाप्यसंवादः, तयोः सम्य
क्त्व मिथ्यात्वे विवेचितेन
दिसूत्रसं
वादात् ॥