________________
।
CREARRIERSON
योग्यत्वं वा, त्रितयस्य तस्य साकारत्वाच्छब्दविषयत्वादभिलापयोग्यत्वादिदमवघ्यादावतिव्याप्त भाषावर्गणादिमतोऽभिलाप्यज्ञानस्यैवामिलाप्यप्रयोजकत्वाच, अथ शब्दोपरागेणार्थावगाहित्वं तत्, तदुपरागश्च संज्ञास्मृतिजन्यतावच्छेदको विषयताविशेषः सच नावच्यादौ तस्य स्मृत्यजन्यत्वाद्, अस्ति च श्रुतज्ञाने सर्वत्र सः पूर्व शब्दार्थयोः सङ्केतग्रहादर्थदर्शनोदबुद्धसंस्कारेण प्रतिसम्बन्धिशब्दस्मरणोत्तरमेव तदभ्युगमात्, अत एव घटमनुभवामीति शब्दोपरागेणैव तदनुव्यवसाय इति चेत्, न, ईहादिरूपमतिज्ञानातिव्याः , संज्ञास्मरणाजन्यशाब्दबोधादावव्याप्तेरवग्रहोचरं संज्ञास्मरणाविलम्वेनैवेहादिदर्शनाच, एतेन 'शब्दानुपरागेणार्थावग्राह्यवृत्तिज्ञानत्वसाक्षाद्व्याप्यजातिमत्त्वं तत्'इत्यपि निरस्तमिति चेत्, अत्रोच्यते, पदधीविषयकधीजन्यत्वाव्यभिचारिजातिमत्वं तत्, विवक्षारूपश्रुतस्यापि पदेष्टसाधनताधीरूपपदविषयकधीजन्यत्वादुपदेशनिरपेक्षेन्द्रियजन्यज्ञानस्य च मतिज्ञानरूपत्वेनालक्ष्यत्वात् यद्वा व्यक्तश्रुतस्यैव लक्ष्यत्वेनाऽव्यक्तश्रुताव्याप्त्यभावात्, अथवा शब्दानुपरागेणार्थावग्राह्यवृतिज्ञानत्वसाक्षाद्व्याप्यजातिमत्त्वं तद्, अस्ति हि सर्वत्र श्रुतेऽर्थदर्शनोबुद्धसंस्कारप्रसूतशब्दोपरागशालित्वम्, न तु मतिज्ञानादौ, अवग्रहादिरूपे तत्र तदभावात्, न च संस्कारजन्यत्वेन स्मृतित्वापत्तिः, प्रत्यभिज्ञाया इव संस्कारजन्यस्यापि श्रुतवि- शेषस्यातथात्वसम्भवात्, न च संस्कारेणेहाद्युत्पत्तिकाले स्मृत्युत्पत्त्यापत्तिः स्मृतिसामग्रथपेक्षयाऽनुभवसामग्रथा बलवत्त्वाद, अथवा श्रुतज्ञानावरणकर्मक्षयोपशमप्रयोज्य एव सर्वत्र श्रुते शब्दोपरागः, अत एवैकेन्द्रियाणां तादृशसंस्कारविरहेऽपि न क्षतिरिति । अर्थावभासिनि श्रुते समानसंविसंवेद्यतयैव पदोपराग इत्यपरे, प्रत्यक्षे विद्यमानत्वमिव श्रुतज्ञाने पदवाच्यत्वं संसर्गतयैव भासते स एव शब्दोपराग इत्यन्ये, यत्तु शब्दाननुविद्धं ज्ञानमेव नास्ति । तदुक्तं-" न सोऽस्ति प्रत्ययो लोके,
साकारत्वशब्दविषय. स्वाभिलायोग्यत्वशदोपरागेणाविगाहित्वैतदन्यतमरूपस्य साभिलापत्वस्य च तानुसारित्व| रूपताया,
खण्डन तत्पतिविधानं च ।
BI