SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ सविवरण श्रीज्ञाना RSE व प्रकरणम्॥ 2SARKAR नाऽपि पदधीजन्यत्वाव्यभिचारिजातिमञ्च, शाम्दोपमित्यतिरिक्ताव्याप्ते, श्रुतनिश्रितमतिज्ञानेऽतिव्याप्तेश्य । स्यादेतत्, श्रुत- I त्वजातिः साक्षात्परम्परया वा पदधीजन्यत्वं न व्यभिचरति, अभिलापप्लावितानां घटत्वादीनामपि पचरागत्वादेरिवोपदेशसहकृतेन्द्रियवेद्यत्वात्, अन्यथा कदाचिदप्यनाकलितघटपदसस्केतानां घटत्वादिग्रहप्रसङ्गात्, अथ पद्मरागत्वादिकमप्युपदेशासहकृतेन्द्रियवेद्यमेव 'कान्तिविशेषवान्मणिः पाराग' इत्युपदेशस्तु परागपदवाच्यत्वोपमितावुपयुज्यत इति चेत्, न, एवं सत्यनाकलितोपदेशानां पद्मरागमहं वेधीत्यनुव्यवसायप्रसङ्गात्पश्चरागपदाभिलापप्रसङ्गाच, मतिज्ञानं तु न तथेति । न तवातिव्याप्तिः। न च तथापि पदधीजन्यत्वाव्यभिचारिश्रुतनिश्रितत्वजातिमति मतिज्ञानेऽतिव्याप्तिस्तस्य सकेतग्रहशाब्दबोधप्रसूतसंस्कारजन्यत्वनियमात्संस्काराद्वारकजन्यत्वविवक्षणे शब्दानुभूतस्मरणाव्याप्तरिति वाच्यम् , जातिपदस्य ज्ञानत्वसाक्षाव्याप्यजातिपरत्वे दोषाभावात् , श्रुतनिश्रितस्यापि संस्कारद्वारा श्रुताजन्यत्वाच, अन्यथा तस्य स्मृतित्वापत्तेः, अथ "पुचि सअपरिकम्मिअ-मइस्स जं संपर्य सुआई। तं सुअनिस्सिों " इत्यागमेन व्यवहारकाले श्रुताननुसारित्वे सति श्रुताभ्या- सपाटवप्रसतत्वस्य निश्रार्थत्वे मतेदृढतरसंस्कारद्वारा श्रुतजन्यत्वं तस्य निर्वाधमिति चेत्, न, तत्राऽभ्यासपाटवपदस्य क्षयोपशमपाटवार्थकत्वात्, अन्यथा संस्कारस्यानुभूतमात्रोपनायकतया श्रुतनिश्रिते श्रुताननुभूतानां नानाधर्माणामभानप्रसङ्गाद् , एवं सूत्रेऽपि परिकर्मितपदं पटुकृतपरं, मतिपदं मतिलब्धिपरमिति न कोऽपि दोषः, अन्यथा तत्र श्रुतातीतत्वस्यानुक्तिसहत्वात्कालव्यवधानस्य विविच्य दुग्रहत्वात, मैवं, पदधीप्रयोजकविवक्षारूपश्रुतवानस्य पदनानाजन्यत्वेन श्रुतत्वस्य पदधीजन्यत्वव्यमिचारित्वात्परागत्वादिग्रह इब घटत्वादिग्रहेऽप्युपदेशानपेक्षणाच, नापि सामिलापत्वं, तद्धि साकारत्वं वा शब्दविषयत्वं वामिलाप I शब्दक भ्यत्वशब्द धीजम्यत्व| पदजन्यपदा योऽपस्थितिजन्यत्वपदघीजन्य त्वाव्यभिचारिजातिम| त्वानां श्रुता नुसारित्वरूपतायाः खण्डनम् । For Private And Personal use only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy