________________
Shri Mahavir Jain Aradhana Kendra
सविवरणं श्रीज्ञाना
र्णव
प्रकरणम् ॥ ॥ ६ ॥
www.khatirth.org
यः शब्दानुगमादृते ॥ अनुविद्धमिव ज्ञानं, सर्वं शब्देन गम्यते ॥ १ ॥ " इति वैयाकरणमतं तदसत्, केवलार्थदर्शनं विना संस्कारोद्बोधाभावेन शब्दानिर्भासादर्थ भासकसामग्रथैव शब्दावभासाम्युपगमे चाव्युत्पन्नानामपि तदवभासप्रसङ्गात्, व्युत्पन्नानां विविच्य पदोपरागेणार्थप्रत्ययोऽव्युत्पन्नानां तु सामान्यत इति चेत्, अर्थविशेषे भासमाने शब्दविशेषनिर्मासस्यैव प्रत्यक्षसिद्धत्वादिति दिग्। ननु यद्येते मतिश्रुतलक्षणे तदा, 'अभिणिबुझइति आभिणिबोहिअं, सुणेइ ति सुअं'ति सूत्रोक्ते लक्षणे कथं समगंसातामिति चेत्, अत्रासाधारणधर्मरूपलक्षणोक्तेस्तत्र च व्युत्पत्तिनिमित्तरूपतदुक्तेः, तथापि श्रूयत इति श्रुतमिति कर्मव्युत्पत्त्या शब्द एव श्रुतं स्यात्, न चायमात्मभाव इति चेत्, वक्तृमुखनिर्गतस्य तस्य श्रोतृश्रुतज्ञानकारणत्वेन वक्तृश्रुतोपयोगस्य च व्याख्यानादौ शब्दकारणत्वेनोपचारादेव तस्य श्रुतत्वाभिधानात् परमार्थतस्तु श्रुणोतीतेि श्रुतमिति कर्तृव्युत्पच्या जीवानन्यश्रुतोपयोगस्यैव श्रुतपदप्रवृत्तिनिमित्ताक्रान्तत्वात् ॥ आह च - "जमभिणिबुज्झइ तमभिणिबोहो जं सुणइ तं सुखं भणिअं || स सुइ जइ तओ नाणं तो नाऽऽयभावो तं ।। ९८ ।। [ यदभिनिबुध्यते तदभिनिबोधो यत् शृणोति तत् श्रुतं भणितं ॥ शब्दं शृणोति यदि सको ज्ञानं ततो नात्मभावस्तत् ] सुअकारणं जओ सो सुअं च तकारणं ति तो तम्मि ॥ कीर सुओवआरो, सुअं तु परमत्थओ जीवो ।। ९९ ।। " [ श्रुतकारणं यतः स श्रुतं च तत्कारणमिति ततस्तस्मिन् ॥ क्रियते श्रुतोपचारः श्रुतं तु परमार्थतो जीवः]त्ति । अत्रापि व्युत्पत्त्यर्थमुपजीव्य जातिगर्भलक्षणे न दोषः ॥ ६ ॥ यथाश्रुतं लक्षणमव्याप्तिप्रसङ्गपरिहाराभ्यां समर्थयति ॥
कथमेकेन्द्रियाणां तद्, नूनं सुप्तयतेरिव ॥ भाषाओंत्राद्यभावेऽपि, क्षयोपशमसम्भवम् ॥ ७ ॥
For Private And Personal Use Only
Acharya Shal Kalassagarsun Gyanmandir
शब्दाननुविद्धं ज्ञान
मेव नास्तीति वैयाकरण
मतस्य खण्ड
नम्, प्रकृत
मतिश्रुतक्षणविलक्ष
सूत्रो
लक्षणसङ्गतत्वापवर्णनं
च ॥
॥ ६ ॥