________________
S
a
kanda
Acharya ShaikailassigarsanGyanmanttire
CAMERICAREER
सोऽयमिषोरिख दीर्घदीर्घतरो व्यापारो, 'यत्परः शब्दः स शब्दार्थ' इति नयाश्रयणात् । एतेन 'न हिंस्यादित्यादिनिषेधविधी विशेषविधिवाधपर्यालोचनयाऽनुमितौ व्यापकतानवच्छेदकेनापि विशेषरूपेण व्यापकस्येव शाब्दबोधे तत्ताद्वहितेतरहिंसात्वेन वृश्यनवच्छेदकरूपेणापि निषेध्यस्य प्रवेश' इति निरस्तम् । उक्तबाधपर्यालोचनस्य प्रकृतोपयोगान्तर्भावस्मदुक्तप्रकारस्यैव साम्राज्यात, तदनन्तर्भावे च तस्य सामान्यवाक्यार्थबोधेन सह मिलनाभावेन विशेषपर्यवसायकत्वासम्भवात् । अव्यवहितद्वित्र- क्षणमध्ये एकविशेषवाधप्रतिसन्धानमेव सामान्यवाक्यार्थस्य तदितरविशेषपर्यवसायकमिति कल्पनायां न दोष इति चेत्, न, द्वित्रक्षणाननुगमात, पटुसंस्कारस्य पञ्चपक्षणव्यवधानेऽपि फलोत्पत्तेश्व, संस्कारपाटवस्यैवानुगतस्यानुसरणौचित्यात, तच्च गृहीतेऽर्थे मतिश्रुतसाधारणविचारणोपयोग एवोपयुज्यते, अत एव सामान्यनिषेधज्ञाने विरोधसम्बन्धेन विशेषविधिस्मृतावपि विचारणया तदितरविशेषपर्यवसानम् । अपि च 'स्वर्गकामो यजेत' इत्यत्र यथा परेषां प्रथमं स्वर्गत्वसामानाधिकरण्येनैव यागकार्यताग्रहोऽनन्तरं चानुगतानतिप्रसक्तकार्यगतजातिविशेषकल्पनं, तथा प्रकृतेऽपि हिंसात्वसामानाधिकरण्येन पापजनकत्वबोधेऽनन्तरं तद्गतहेतुतावच्छेदकानुगतानतिप्रसक्तरूपकल्पने किं बाधकं, सर्वशब्दबलेन हिंसासामान्योपस्थितावपि तद्गतहेतुस्वरूपानुबन्धकृतविशेषस्य कल्पनीयत्वात् । सैव च कल्पना वाक्यार्थबोधात्मिकेति न तदुच्छेदः॥
किञ्च पदार्थबोधाद्धिंसासामान्येऽनिष्टसाधनत्वग्रहे आहारविहारादिक्रियास्वनिष्टसाधनत्वव्याप्यहिंसात्वारोपेणानिष्टसाधनत्वारोपलक्षणतर्कात्मक एव वाक्यार्थबोधः, तस्य युक्त्या विपर्ययपर्यवसानात्मको महावाक्यार्थबोधः, ततो हेतुस्वरूपानुबन्धत्रयविषय एव हिंसापदार्थ इत्यैदम्पर्यार्थबोधः, इत्येते बोधा अनुभवसिद्धत्वादेव दुर्वाराः । श्रुतज्ञानमूलोहादेश्च श्रुतत्वं
HORSHASTRORESTMETROPER
सवे पाणा
सब्बे भूआपण हंतव्वा इत्यादौ पदार्थबोधादिच
तुर्विधवाक्यार्थबोधस्थोपपाद. नम्।
Fat PW
And Penal Use Only