SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ S a kanda Achatya Sas s Gym भविानबन्धु ॥९१॥ AARAKAR ऐन्द्रियकश्रुतज्ञानसामान्ये धारणात्वेन तदिन्द्रियजन्यश्रुते तदिन्द्रियजन्यधारणात्वेनैव वा हेतुत्वात् । प्रागनुपलब्धेऽर्थे श्रुतज्ञानाहितवासनाप्रबोधाभावेन श्रुतनिश्रितज्ञानासम्भवात, धारणायाः श्रुतहेतुत्व एव च मतिश्रुतयोर्लब्धियोगपद्येऽप्युपयोगक्रमः सङ्गच्छते, प्रागुपलब्धार्थस्य चोपलम्भे धारणाहितश्रुतज्ञानाहितवासनाप्रबोधान्वयाच्छुतनिश्रितत्वमावश्यकम् , धारणादिरहितानामेकेन्द्रियादीनां त्वाहारादिसंज्ञान्यथानुपपत्यान्तर्जल्पाकाराविवक्षितार्थवाचकं शब्दसंस्पृष्टार्थज्ञानरूपं श्रुतज्ञानं क्षयोपशममात्रजनितं जात्यन्तरमेव, आप्तोक्तस्य शब्दस्योहाख्यप्रमाणेन पदपदार्थशक्तिग्रहानन्तरमाकाङ्क्षाज्ञानादिसाचिव्येन जायमानं तु ज्ञानं स्पष्टधारणाप्रायमेव, शाब्दबोधपरिकरीभूतश्च यावान् प्रमाणान्तरोत्थापितोऽपि बोधः सोऽपि सर्वः श्रुतमेव । अत एव " पदार्थवाक्यार्थमहावाक्याथैदम्पर्यार्थभेदेन चतुर्विधवाक्यार्थज्ञाने ऐदम्पर्थिनिश्चयपर्यन्तं श्रुतोपयोगव्यापारात सर्वत्र श्रुतत्वमेव" इत्यभियुक्तैरुक्तमुपदेशपदादौ । तत्र "सव्वे पाणा सब्वे भूआ सव्वे जीवा सव्वे सचा ण हंतव्वा" इत्यादौ यथाश्रुतमात्रप्रतीतिः पदार्थबोधः। एवं सति हिंसात्वावच्छेदेनानिष्टसाधनत्वप्रतीतेराहारविहारदेवार्चनादिकमपि प्राणोपघातहेतुत्वेन हिंसारूपत्वादकर्तव्यं स्यादिति वाक्यार्थबोधः । यतनया क्रियमाणा आहारविहारादिक्रिया न पापसाधनानि, चिचशुद्धिफलत्वात्, अयतनया क्रियमाणं तु सर्व हिंसान्तर्भावात् पापसाधनमेवेति महावाक्यार्थबोधः । 'आजैव धर्मे सार' इत्यपवादस्थलेऽपि गीतार्थयतनाकृतयोगिकारणपदैनिषिद्धस्याप्यदुष्टत्वं, विहितक्रियामात्रे च स्वरूपहिंसासम्भवेऽप्यनुबन्धहिंसाया अभावान्न दोषलेशस्याप्यवकाश इत्यैदम्पर्यार्थबोधः । एतेषु सर्वेष्वेकदीर्घोपयोगव्यापारान श्रुतान्यज्ञानशङ्का, ऐदम्पर्यबोधलक्षणफलव्याप्यतयैव श्रुतस्य लोकोत्तरप्रामाण्यव्यवस्थितेर्वाक्येऽपि क्रमिकतावद्बोधजनके तथात्वव्युत्पत्तिप्रतिसन्धानवति व्युत्पचिमति पुरुषे न विरम्यव्यापारादिषणावकाशः। शाब्दबोध. परिकरीभूतबोधमात्रस्य श्रुतत्वं पदार्थबोधादिचतुर्विघवाक्यार्थबोधस्य श्र. तत्वमुपपादितम् । CMOUGBODHAN ॥९ ॥ Fat PW And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy